________________
श्रीधन्य
चरित्रम्
॥ २५५ ॥
वाच्यम् । अक्ष्णः काणत्वं तु पुराकृतपापोदये भवति । यतः-
" षष्टिर्वामनके दोषा, अशीतिर्मधुपिङ्गले । टुण्टमुण्टे शतं दोषाः, काणे संख्या न विद्यते ॥१॥
'विना पापकर्मोदयं काणाक्षीति वचः कः श्रोतुं शक्नोति ? । आत्मनः पापोदयजन्यकर्मविषाकमनुभवन्नपि यः परस्याऽसद्दोषमुद्भावयति स कापुरुषो ज्ञेयः । भवता पुराऽपि अन्यजन्मनि कियताम् असत्कलङ्कानि दत्तानि भविष्यन्ति, तेन कर्मणा इह जन्मनि कुष्ठित्वं प्राप्तम् । यस्य मुखं विलोकयितुमनर्हम् । पुनरिह जन्मनि असत्कलङ्कदानेन का गतिर्भविष्यति भवताम्,” । इति श्रुत्वाऽध्यापकः प्राह- 'भोः कुशिष्याग्रणीः ! छात्राणां तु अध्यापकेन शिक्षायां दीयमानायां प्रतिवचो वक्तुमनर्हम्, तत्स्थाने त्वं तु कुष्ठित्वकलङ्कं दत्त्वा प्रतिवादिवद् अभिमुखं जल्पसि ! यदि मम विमलनीरुजशरीरस्य अध्यापकस्य कलङ्कं दत्त्वा | जल्पसि तदाऽन्यस्य कस्य मुञ्चेस्तद् ज्ञातम् !' । कुमार्योक्तम्- 'भो आर्य ! कमलदललोचनाया मम काणाक्षित्वं कथमुक्तम् ?' । उदयनः प्राह- 'मया तु तव पित्रोक्तं श्रुत्वा ज्ञातम्' । कुमार्याह-'आर्य ! ममापि पित्रोक्तम्' । इति परस्परं वावदतौ द्वावपि सशङ्कौ जातौ । ततो निर्णयार्थ पटिमुत्क्षिप्य परस्परं रूपमपश्यतां तदा द्वावपि चित्तपरमानन्दमेदुरौ जातौ । परस्परं च प्रशंसयितुं लग्नौ - 'अहो ! सौभाग्यसत्त्वं निर्मथ्य रूपं निर्मितम् । त्रैलोक्यसर्वस्वमिव धात्राऽतिशयचातुर्थं संघटितम्' । एवं परस्परं गुण| रूपरञ्जितौ प्रेमामृतप्लुतौ सविस्मयं वक्तुं लग्नौ - 'अहो ! राज्ञा आवाम् ; अतिशयवञ्चितौ' । इति परस्परं खेद विप्लुतावूचतुः - ‘आवां राज्ञा प्रथमतो वञ्चितौ तद् आवयोरपि वञ्चने कोऽपि दोषः । अथ कुमारी प्राह- 'अस्मिन् भवे मम भवानेव भर्ता' | उदयनोऽप्याह-'ममापि त्वमेव प्राणप्रिया । इति निश्चित्य मिथोऽनुरक्तौ तौ काञ्चनमालाभिधां धात्रिकां विना
Jain Education International
For Personal & Private Use Only
अष्टमः
पल्लवः
|॥ २५५ ॥
www.jainelibrary.org