SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ २५४ ॥ Jain Education Internationa अतो लज्जाया मुखं कस्यापि न दर्शयति, ततश्च जवनिकान्तः स्थास्यति' । इत्युक्त्वा बहुमानपूर्वकं खान-पान - वसन - मानादिशुद्धिं निजेन समं कारयता वत्सेशः स्वसमं रक्षितः । अथ 'गणकोदिते शुभेऽहनि शास्त्रपठनमुहूर्तनिर्णय कृत्वा राज्ञा वासवदत्तायै प्रोक्तम्- 'वत्से ! अमुकदिने त्वया शास्त्रारम्भः, कर्तयः परं गुरुमुखं त्वया नेक्ष्यम् - कथम ? - समस्तशास्त्रविशारदोऽपि कर्मदोषेण चन्द्रः कलङ्केनेव कुष्ठरोगेणोपद्रुतोऽस्ति । राजवंश्यानां कुष्ठिमुखावलोकनं नीतौ निषिद्धमस्ति, तस्माज्जवनिकान्तः स्थितयैव पठनीयम्' । इति शिक्षयित्वा शास्त्रप्रारम्भस्तु कारितः । प्रत्यहं वत्सेशो वासवदत्तावासे गत्वाभद्रासने स्थित्वा | जवनिकान्तःस्थितामेव वासवदत्तां सङ्गीतशास्त्रमर्माणि पाठयति । साऽपि सविनयं स्वधिया शास्त्रमर्माणि गृह्णाति । उदयनोऽपि | तस्याः प्रतिभापटुत्वं ज्ञात्वा सोत्साहं पाठयति । अथान्यदिने गान्धर्वशास्त्रं पठन्ती ताल-मान- मात्रा -लय-विभावानुभावाऽलङ्कारादिभी रसोत्पत्तिसमये अत्यन्तसूक्ष्मदृष्टिभिरपि सूक्ष्मदृष्टया ग्राह्यत्वाद् द्वि-त्रि- चतुष्कृत्वः कथनेऽपि वासवदत्ता विशदरीत्या ग्रहीतुमशक्नुवती पुनः पुनः प्रष्टुं लग्ना । तदा वत्सराजः कथयन् श्रमेण श्रान्तः साक्रोशं तिरस्कारवचो वक्तुं लग्नः - 'भोः काणाक्षि ! नेत्रेण सह बुद्धिरपि नष्टा ! । अक्षिस्फोटे जाते किं हृदयमपि स्फुटितम् ? | हे शून्यचित्ते ! मया पुनः पुनः कथितेऽपि कथं धर्तुं न शक्नोषि ? ' । इति | अध्यापकवाक्यानि श्रुत्वा कुमार्यपि सरोषमुक्तवती- "या स्वामिना मम मन्दबुद्धित्वहेतोर्धारणाऽपटुत्वं दृष्ट्वा आक्रोशवचनैः शिक्षा दत्ता सा तु मया मस्तके धृता, ममैव दोषोऽयम् । परन्तु 'काणाक्षी' इति कलङ्कं दत्त्वा जल्पनं भवादृशानां न युक्तम् । अतः परं न १. ज्योतिष्ककथिते । २. तीक्ष्णबुद्धिभिरपि प्र० । For Personal & Private Use Only अष्टमः पल्लवः ॥॥ २५४ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy