SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ २५२ ॥ Jain Education Int सचिवैरुक्तम्- 'स्वामिन् ! हस्तिच्छलेन प्राप्येते' । राज्ञोक्तम्- 'कथम् ? ' । तैरुक्तम्- कूटों वस्त्रवंशादिमयोऽङ्गोपाङ्गयुक्तोऽन्तः शुषिरो हस्ती निष्पाद्यते । अन्तः पादादिस्थानेषु भटा रक्ष्यन्ते । अन्तः स्थितैश्च तैः सत्यहस्तिवत् तरुपल्लवमोटन-मन्दगतिगमनादिकाः क्रियाः कुर्वन् कूटहस्ती वने भ्राम्यते तदा वनेचरमुखाद् हस्त्यागमनं श्रुत्वा गजव्यसनी स नृपः सद्य उत्थाय एकाक्येव तत्रागत्य मोहनार्थं वीणां वादयन् गीत-गांन करिष्यति । तदवसरेऽन्तः स्थैर्भटैर्गजभ्रमणादिमायां दर्शयित्वा स्वनिकटमाकर्षणीयः । ततः स्वविषयागतं मत्वा सहसा निर्गत्य गीतव्यसनी स नृपो बद्ध्वाऽत्रानेतव्यः । अत्रानीतश्च वसना-ऽऽसनदानादिना पुनः प्रसन्नीकर्तव्यः ततः पश्चात् स पुत्रीं शिक्षयिष्यति' । इति मन्त्रिभिरुपायः कथितस्तदा राज्ञापि 'तदेव क्रियताम्' इत्यादेशः कृतः । सचिवैस्तां सर्वामपि रचनां कृत्वा कौशाम्बीनिकटोपवने मायागजो नीतः। स च इतस्ततः परिभ्रमणं कर्तुं लग्नः, अन्ये च भटा वेषान्तरेण दूरतरं स्थिताः । ततस्तं मायागजं परिभ्रमन्तं वनेचरैर्दूरतो दृष्ट्वा असत्यमपि सत्यं ज्ञात्वा उदयनराज्ञे ज्ञापितम् । सोऽपि श्रवणमात्रेणोत्थाय तं गजं बन्द्धुम् एकाक्येव तत्रागमत् । दूरतस्तं महान्तं हस्तिनं दृष्ट्वा गायन् वीणां च वादयन् उदयनो हस्तिनिकटं गन्तुं लग्नः । हस्त्यपि तरुपल्लवादिमोटनं त्यक्त्वा रागाकृष्ट इव शनैः शनैः पादन्यासं कुर्वन् मस्तकं च धुन्वन् सम्मुखमागच्छत् । अनुकूलं तं हस्तिनं दृष्ट्वा ध्यातुं लग्नः - 'मम गीतकलया वशीभूतः शिरो घूर्णयन् सम्मुखमागच्छति, अतोऽधुना क्षणेन एनं वशीकृत्य बध्नामि । इति चिन्तयन् साह्लादं गायन् यावता हस्तिनिकटस्थलं प्राप्तस्तावता सहसा अन्तः स्थैर्भटैर्दूरतरस्थितैश्च भटैर्निर्गत्य गृहीत्वा वनान्तरकुञ्जरक्षिते रथे क्षिप्तः, जात्यतुरङ्गमाश्च योजिताः । तेच अश्वाः प्रेरिता धावमाना अर्घघटिकया योजनमार्गमुल्लङ्घयन्ति । उदयनस्तु तत्क्रियां दृष्ट्वा चिन्ता कर्तुं लग्नः- अहो ! कर्मणां For Personal & Private Use Only अष्टमः पल्लवः ॥॥ २५२ ॥ ww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy