________________
श्रीधन्यचरित्रम्
॥ २५१ ॥
Jain Education Inter
नागो गतस्तत्र तत्र तस्य दृष्टिप्रसरणमात्रेण सम्मुखगता वनतरवो जन्तवश्च सर्वेऽपि दग्धाः, स्वयमपि च वनज्वालया मृतः तदा चमत्कृतचित्तेन राज्ञोक्तम्- 'अहं तुष्टोऽस्मि त्वदुपरि, अतो बन्धमोक्षं मुक्त्वा यथेच्छं वरं वृणु' । इति राज्ञोक्तं श्रुत्वाऽभयः स्माह| मम वरदानं भाण्डागारे कुरु, यथावसरे ग्रहीष्यामि' । राज्ञोक्तम्- 'एवमस्तु' । पुनः सर्वे गृहमागताः । अभयस्य महती प्रशंसा
जाता।
अथ प्रद्योत भूपतेः पुत्री नाम्ना वासवदत्ता त्रिषष्टिकलासु कुशला, परम् एकस्यां सङ्गीतरत्नाकराद्युक्तगीतकलायां न्यूनाऽस्ति । अतस्तत्पठनार्थं पाठकगवेषणेच्छया जनकायोक्तम्- 'तात ! मम सङ्गीतशास्त्रपठनार्थम् अत्यद्भुत-संगीतशास्त्रपाठनपटोः कस्यापि अनन्यसदृशपाठकस्य गवेषणं कृत्वाऽऽनाय्य दीयतां शीघ्रम्' । राज्ञोक्तम्- 'वत्से ! चिन्तां मा कुरु, स्वदेश- परदेशेषु गवेषयित्वा सबहुमानमाहूय त्वदीयेच्छापूरणं करिष्यामि । बहुरत्ना वसुन्धरा, अतो गवे षणां कृर्वतां संयोगो भविष्यति । एवं पुत्रीं सन्तोष्य सभायामागत्य सचिवानामग्रे प्रोक्तम्- भोः सचिवाः ! सङ्गीतशास्त्रविशारदं मार्गयन्तु' । ततः सचिवैरुक्तम्- "स्वामिन् ! वर्तमानसमये तु श्रीशतानीकपुत्र उदायनः एव सर्व गान्धर्वागमपारगोऽद्वितीयोऽस्ति । यो गीतेन वीणानादेन च 'अनागसो द्विपेन्द्रान् वशीकृत्य बने बध्नाति ईदृशं तस्य कौशल्यमस्ति । यः कोऽपि आगत्य कथयति 'अद्योपवने हस्ती समागतोऽस्ति' तदा श्रवणमात्रेण एकाक्येव वने गत्वा गीतेन गजं वशीकृत्य वने बध्नाति । अतः स गजबन्धनव्यसनी बद्ध्वा अत्रानीयते” । राज्ञोक्तम्-तत्कथं संजायते ? यतो मया पूर्वं श्री वीराग्रे स पुत्रत्वेन स्थापितोऽस्ति, तदुपरि सत्यप्रेषणं न युक्तम् । तेन विना तु कथमागच्छेत् ?'। १. निरपराधान् ।
For Personal & Private Use Only
अष्टमः
पल्लवः
॥॥ २५१ ॥
ww.jainelibrary.org