________________
श्रीधन्यचरित्रम्
॥ २५० ॥
Jain Education In
शम्बलं विशेषनिर्णयाय ये परीक्षण कुशलास्तेषां हस्ते दत्तम् । तैरपि विविधप्रकारैः शास्त्रोक्तैः स्वबुद्धया च परीक्षितं परं कैरपि तस्य हार्दं न लब्धम् । केनापि निर्विषभाजने क्षिप्तं, तथापि दूषणं न ज्ञातम्। ततः सर्वै राज्ञ उक्तम् एषु मोदकेषु विषादि दूषणं | नास्ति' । तदा राज्ञाऽभयकुमारायोक्तम्- 'अस्मिन् पाथेये भक्ष्यमाणे लोहजङ्घः पुनः पुनः शकुनैर्निषिद्धः तेन अस्मिन् शङ्का समुत्पन्ना, परं दूषणं तु न केनापि प्रकटीकृतम् । तेनाहं पृच्छामि - शुद्धा अशुद्धा वा अमी मोदकाः ? । यत् त्वं सर्वेषां निपुणानामग्रयोऽसि निर्धारं कृत्वा वद' । इति राज्ञोक्तं श्रुत्वा ईषद् विहस्य मोद कान-हस्ते गृहीत्वा औत्पत्तिक्यादिबुद्धिभिः द्रव्यानुयोगशास्त्रपरिकर्मितमत्या च तस्य पाथेयस्य हार्दं लब्धम् शिरोधूननपूर्वकं राज्ञ उक्तम्- 'अस्मिन् पाथेये द्रव्यसंयोगजो दृष्टिविषसर्पोऽस्ति' । अभयोक्तं श्रुत्वा चमत्कृतचित्तो राजाऽऽह- 'अभय ! त्वया तु कापि अनिर्वचनीया परीक्षा कृता यत् खण्डघृतादिनिर्मितेषु घनमोदकेषु सर्पः कया रीत्या प्रविष्टः ? । तवोक्तं श्रुत्वा सभ्या हसनं कुर्वन्ति । अस्माकं तु त्वदुक्ते प्रत्ययोऽस्ति| अभय मिथ्या न वदति । अतः सत्यं सप्रत्ययं किमपि वद, येन एते, विलक्षवदना भवेयु : ' । अभयेनोक्तम्- 'राजन् ! एषु मोदकेषु भग्नेषु प्रकटसर्पस्तु न दृश्यते, परं जलादिद्रव्यसंयोगे दृष्टिविषसर्प उत्पद्यते। तस्माद् य एतान् मोदकान् भुक्त्वा यदा जलं पिबति तदा उदरमध्ये समूर्च्छिमः सर्प उत्पद्य मुखेन पूत्कारं करोति, तस्य विषेण हृदयं ज्वलति, ततो भक्षको मृयते । केनापि द्वेषबुद्धया गुप्तविषं निष्पाद्य मोदकेषु क्षिप्तम् । यद्यत्र भवतां प्रत्ययो न भवति तदा वने गत्वा मोदकान् परीक्षयतु' । चमत्कृतचित्तो राजा अभयादिसभ्यजनयुक्तो वने गतः । तत्राऽभयादेशेन एका महती लम्बायमाना भित्तिः कारिता । ततो भित्त्यग्रेतनभागे मोदका मुक्त्वा जलेन सिक्ताः । भित्तिपश्चाद्भागे आगत्य भित्त्यन्तरे सर्वे स्थिताः । क्षणेन मोदकदले दृष्टिविषसर्प उत्पन्नः । उत्पद्य च यत्र यत्र
For Personal & Private Use Only
अष्टमः
पल्लवः
॥ २५० ॥
ww.jainelibrary.org