________________
श्रीधन्य
चरित्रम्
अष्टमः
पल्लवः
॥२४९॥
तदा अस्माद् दुःखाद् मुच्यते' । तत् सर्वजनैर्मानितम् । तादृशं आम्नायकृतसंस्कारजनितं विषमिश्रितं शम्बलं निष्पाद्य अग्रतो रक्षितं यत्परीक्षणकुशलोऽपि सविषं ज्ञातुं न शक्नुयात्। यदा लोहजङ्घ आगत्या द्वितीयदिने पुनः प्रस्थितस्तदा तैर्मार्गपाथेयास्ते मोदका दत्ताः । स तान् लात्वा चलितः । अवसरे क्षुधातॊ जातस्तदा एकस्मिन् सरस्तीरे भोक्तुमुपविष्टः । यावता ग्रन्थिं छोटयति तावता शकुनर्निषिद्धः । तेन क्षुधार्तेनापि न जग्धम् । शकुनशास्त्रे कुशलत्वेन ज्ञातम् 'शकुनशास्त्रे निषिद्धं कार्यं न कर्तव्यमेव' । बुभुक्षितश्च अग्रतश्चलितः । कतिचिद् मार्गमुलपय पुनर्भोक्तुं स्थितः । पुनः शकुनर्निषिद्धः । एवं तृतीयवारमपि। ततः पक्षिरुतज्ञेन दूतेन निर्धारितम्-पक्षिरव एतत्कार्यं निषेधयति, पुनः शकुनानि च वारयन्ति अतो मया मार्गे न भोक्तव्यम्, गृहे गत्वैव भोक्तव्यम्, यद् भाव्यं तद् भवतु, । इति निर्धार्य अग्र चलितः बुभुक्षाक्षामकुक्षिरपि साहसमवलम्ब्य महताऽऽयासेन शिथिलीभूताऽङ्गोपाङ्गो निस्तेज आननो वेपुथुवाग नत्वा राज्ञोऽग्रे स्थितः । राजापि तं तथा विधं दृष्ट्वा विस्मयापन्नः पृच्छति-'भो लोहजङ्घ ! किमद्य शिथिलगात्रस्तवं दश्यसे ? किं कापि तव शरीरे रोगार्ति र्जातास्ति? येन इदृशो दश्यसे ? किमस्ति ? सत्यं वद ' । तेनोक्तम्स्वामिन् ! तव प्रसादवतो मम लोहजङ्घस्य न कापिरोगार्तिर्भवति। परमहं क्षुधार्तिपीडितोऽस्मि, तेन ईदृशीं दशांप्राप्तः । राज्ञोक्तम्'मम राज्यं तव पाथेयं किंन मिलितम्! ।तेनोक्तम्-त्वत्प्रसादेन बहुतरं पाथेयमस्ति, परं मया नजग्धम् । राज्ञोक्तम्-'कस्मात् ? | तदा तेन पथो व्यतिकरो निवेदितः । राज्ञोक्तम्-'तत् पाथेयं ममाग्रे आनय' । तेन तत्पाथेयं राज्ञोऽग्रे मुक्तम्। राज्ञापि ते मोदकाः स्वहस्तेन सर्वता निरीक्षिताः परं दूषणं किमपि न ज्ञातम् सुगन्धिराजद्रव्यमिश्रितत्वाद् नासिकायाः १ प्यायनं जातम् । पुनस्तत्
१. पोषणं लपुष्टिः ।
JainEducation
For Personal Private Use Only
Laww.pinelibrary.org