________________
श्रीधन्य
अष्टमः
चरित्रम्
पल्लवः
॥२४८॥
अथ अष्टमः पल्लव: अथाष्टमे पूर्वोक्ता चण्डप्रद्योतभूपाद् मुक्तियुक्तिप्रकाशिनी अभयशेषकथा वितन्यते । अथ चण्डप्रद्योतराज्ञो गृहे चत्वारि अनर्घाणि अद्वितीयानि रत्नानि सन्ति। यदुक्तंच-'जातौ जातौ यदुत्कृष्टं तद् त्नमभिधीयते । तत्रैकं तावद् लेखहारी लोहङ्घनामा दूतः १। द्वितीयं शिवादेवी नाम्नी सतीनां प्रथमा-मुख्या अग्रमहिषी २ तृतीयं दिव्योऽग्नि भीरुनामा देवाधिष्ठितो रथः ३। चतुर्थम् अनलनामा गन्धहस्ती ४। एतैः स्फुरत्प्रभावश्चतुर्दन्तैरैरावत इव चतुर्भी रत्नैः कृत्वा सर्वभूभुजामर्थ्यः प्रद्योतो राजाऽधिकतरं द्योतते। तत्र लोहजङ्घनामा दूत एकस्मिन्नपि दिने पञ्चविशतियोजनानि याति । स लोहजङ्घोऽन्यदा राजज्ञाया मुहुर्भृगुपुरं प्रस्थितः, य एकेनैव दिनेन भृगुपुरे गच्छति, पुनर्द्वितीयदिने स्वाम्युक्तं कार्य प्रतिलेखादिकं लात्वा एकेनैव दिनेन उज्जयिनीं याति । तत्रासौ शीघ्रं गतागतै गुपुरीजनान् मार्गस्थितग्रामजनांश्च आहार कर्मकरण-धूमयन्त्रपानाद्यर्थम् उद्वेजयति। तदुक्तवस्त्वानयतां किञ्चिद् विलम्बो भवेद् तदा तान् कुट्टयति । प्रद्योतराज्ञ इष्टत्वाद् न काऽपि तेषां विज्ञप्तिं श्रृणोति । एवं नित्यं गमनागमनै : खेदिता भृगुपुरीजनाश्चिन्तयन्ति -'अयं राज्ञो मान्यत्वाद् न खेद्यते मार्यते च, परम् अस्य नित्यशः पीडा कथं सोढुं शक्यते? । अयं नित्यमागच्छति गच्छति च, अथास्य दुःखस्य उपायः कोऽप्यस्ति?'| इति मन्त्रणां कुर्वतां कुबुद्धिकुशलैरुक्तम्-'भो भो लोका ! एतदुःखं तु शिवस्य ब्रह्मकपालमिव पृष्ठलग्नं न कदापि च्छुट्यते, न कोऽपि चाऽस्य रावं श्रृणोति । तस्माद् अस्य दुःखस्य मोचनोपाय एक एवास्ति, नान्यः कोऽपि' । जनै पृष्टम्-'क उपायः? | तैरुक्तम्-'अस्मै शम्बलं कयापि रीत्या संस्कृतविषमिश्रं प्रभाते दीयते । स तद् लात्वा मार्गे दूरं गत्वा यथावसरे भक्षयिष्यति, जलपानं च कृत्वा अग्रतो गच्छन्नेव मार्गे पतित्वा, मरिष्यति,
॥२४८॥
JainEducationind
For Personal Private Use Only
wainelibrary.org