SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् सप्तमः पल्लवः Mच विधाय महामहेन पुरप्रवेशः कारितः । पौरेश्च अत्यद्भुतपुण्यप्राग्भारं दृष्ट्वा सगौरवं श्लाधितः । भर्तुरागमनं श्रुत्वा पितृगृहस्थिते सोमश्री-कुसुमश्रियौ अप्यागते । भर्तुश्चरणौ च आनम्य अन्तःपुरेऽमरसुन्दरीजित्वरीणां षण्णामपि सपत्नीनां सथाविधि मिलनं कृतम्। कुशलालापपृच्छायां शालिभद्रस्वस्रोक्तं धन्यचरित्रं श्रुत्वा चमत्कृते, परमानन्दं च प्राप्ते। अथताभ्यां षभिः सहगामिनीभिश्च, अष्टभिः सिद्धिभिर्योगीव सोऽष्टभिः पत्नीभिः सह सौख्यं दोगुन्दुकाऽमरवद् विलसति स्म । स भूरिभाग्योऽसुखयुजि विदेशेऽपि कीर्ति-श्रीसखीं भोगभङ्गी न बुभुजे?, अपि तु भुक्तवानेव । यद् अष्टमिः प्रियाभिः सह राजोपपदगृहपुरे-राजगृहपुरे पुरन्दर इव रेजे तद् दानधर्मस्य प्रसादं बुध्यताम्। ॥ इति श्री मत्तपागच्छाधिराजश्री सोमसुन्दरसूरिपट्टप्रभाकरविनेय श्री जिनकीर्तिसूरिविरचितस्य पद्यबन्धधन्यचरित्रशालिनः श्रीदानकल्पद्रुमस्य महोपाध्याय-श्रीधर्मसागरगणिनामन्वये महोपाध्याय श्री हर्षसागरगणिप्रपौत्रमहोपाध्याय श्रीज्ञानसागरगणि शिष्याल्पमतिग्रथितगद्यरचनाप्रबन्धे कन्याचतुष्टयपरिणयन-राजगृहप्रवेशवर्णनो नाम सप्तमः पल्लवः ।। ॥२४७|| ||२४७॥ Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy