________________
श्रीधन्य चरित्रम्
सप्तमः पल्लवः
अवरोधादिषु किमपि अनुचितं च न कृतं मया, येनाहं राज्ञो धर्मस्य च अपराधभाजनं भवामि । केवलम् अस्य नाम्नः कीर्तिर्वर्धिता। कोऽत्र मम दोषो येन वधायादिशति राजा?" इति भट्टोक्तं श्रुत्वा राजप्रमुखाः सर्वेऽपि सभ्याः सविस्मयं हसन्तः प्राहुः-'भो | भट्ट ! त्वया साधु अभ्यधायि । 'कार्पण्यरोगस्य त्वां बिना कोऽपरो भिषग्वरो भवति ?। ईदृशानाम् ईदृशी एव शिक्षा घटते, | परमत्र भट्टस्य न कोऽपि दोषः । राज्ञाऽपि कोपं त्यक्त्वा प्रसत्तिपात्रं भूत्वा बन्दी बन्धनाद् मुक्तः । यथोचितं प्रीतिदानं दत्त्वा विसर्जितः । याचकोऽपि प्राप्तधनशर्माणं धनकर्माणम् एवमन्वशात् 'भोः श्रेष्ठिन् ! पुनरीदृशो भट्ट-भिक्षुकैः सह विरोधो न कार्यः, हृदयं च दयादानादिना कोमलं रक्षणीयम् । कृपणता तु इह परत्र च केवलं दुःखैककारणमस्ति। यत उक्तं च शास्त्रे -- "भोक्तव्यं च प्रदेयं च, कर्तव्यो नैव संग्रहः । कीटिकासञ्चितं धान्यं, तितिरिः पश्य भक्षयेत्" ||१||
एवं शिक्षां दत्त्वा गतः । श्रेष्ठी सलज्जवदनो भूत्वा भूपं नत्वा प्रहृष्टान्तःकरणो बहुजनयुतो गृहं गतः यतो विकटात् सङ्कटाद् मुक्तः को न मोदते? अथ गृहागतेन श्रेष्ठिना राज्ञो वचस्तदुपकारं च स्मृत्वा दुष्टानां शङ्कनीयाय धनसारस्य कनीयसे सुताय सहर्ष सोत्सवपूर्वकं गुलमालिनी स्वकनी परिणायिता, बहु च धन-वस्त्रादिकं दत्तम्। ____ अथ धन्यः कियद्दिनानि तत्र स्थित्वा पुना राजादीन् आपृच्छय षडभिर्भायाभिरावृतः श्रीराग इब षड्भिः, प्रियाभिर्युक्तो राजगृहनगरं प्रति प्रस्थितः । मार्गे बहूनां नराधिपानाम् उपायनानि गृह्णन् प्रसादं च ददत् क्रमेण राजगृहनगरोपवनं प्राप्तः । अथ श्रीश्रेणिको राजा चरमुखेन धन्यागमनं श्रुत्वा चतुश्चमूयुक्त आकारणाय सम्मुखमागतः । जामातरं सहर्षमालिङ्गय कुशलक्षेमालापं
१. कार्पण्यरोगपीडितस्यास्य।
॥२४६॥
For Personal & Private Use Only
in Education inte
Tw.jainelibrary.org