SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ २४५ ॥ Jain Education Interations गृहसारं व्ययितं विगोपितं च । इति धन्यवचः श्रुत्वा राज्ञा चौरं ज्ञात्वा स्वसेवका बधाय आदिष्टाः । सेवकैश्च सद्यो गृहातश्चिन्तयति- 'अधुनाकापट्यं न चलति । स्वरूपप्रकटनेन जीवामि, नान्यथा' । तदा विफलमायोऽसौ मन्दीभवन्मतिर्बन्दी श्रेष्ठिरूपं परित्यज्य मूलस्वरूपं विधाय सभान्तः स्थितः प्राह श्रूयतां सर्वेऽपि जना मम कथनम् - | अनेकवर्षपूर्वेऽस्मद्बन्दिजनमेलके स्वस्वकलाकौशल्यप्रकाशनावसरे केनाप्युक्तम्- 'अमीभिः सर्वैरुक्तां स्वस्वकलां तदा सत्यां जानामि यदाऽमितधनस्य धनकर्मणो गृहे गत्वा याचनां च कृत्वा एकदिननिर्वाहमात्रमपि भोजनं लात' । इति तदुक्तं श्रुत्वा मया प्रतिज्ञा कृता- 'यदि अस्य पार्श्वाद् एकदिननिर्वाहकभोजनं गृह्णामि तदा समुदायदाने मया विभागो ग्राह्यः नान्यथा' । इति प्रतिज्ञां कृत्वाऽस्य गृहे गत्वा आशीर्वादं च दत्त्वा मया एकदिनभोजनं याचितम् । तदाऽनेनोक्तम्- 'अद्यावसरो नास्ति अतः प्रगे दास्ये' । पुनरन्येदिनेगते प्रगे दास्ये एवमुक्तं श्रुत्वा तृतीय दिवेसे गतः । तथापि तदेवोत्तर 'प्रगे दास्ये' । एवं मया | अनेकवर्षान् यावद् याचितः परं किमपि न लब्धम् । याचकवृन्दानि भ्रष्टप्रतिज्ञं मां हसितुं लग्नानि । तदा मया चिन्तितम् - मुधा | मया प्रतिज्ञा कृता, महत्त्वं गमितम् !, भ्रष्टप्रतिज्ञस्य जीवनं विफलम् । इति ध्यात्वा अस्यैव मितंपचस्य अभोग्यां सम्पदं | भोग्यतामानेतुं मया देव्याराधनं कृतम् । बहुभिरुपवासैर्बहुभिश्च क्लेशैर्देव्याः प्रसादो लब्धः । तदा श्रेष्ठिनो ग्रामगमनावसरं | लब्ध्वा श्रेष्ठिनो रूपं कुत्वाऽस्य गृहे प्रविष्टः । तत्र स्थितेन मयाऽस्य कमला सफलीकृता, तत्राप्यस्यैव नाम यशश्च वर्धितम् । | हीनदीनप्राणिनां समुद्धारः कृतस्तत्राप्यस्यैव पुण्यम् 'यस्यान्नं तस्यैव पुण्यम्' इति लोकोक्तेः । मया तु भोजनमात्रमेव कृतम् । १. करोतु । २. ममारदासं पुरा मया वर्षदिवसाभ्यन्तरे अस्माकं बंदि प्र० । ३ वर्ष प्रमाणमासं । For Personal & Private Use Only सप्तमः पल्लवः ॥ २४५ ॥ w.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy