________________
श्रीधन्यचरित्रम्
सप्तमः
पल्लवः
॥ २४४॥
पुण्यधीरनयोःयरथार्थविभागं करिष्यत्येव' । सभागतं च धन्यं दृष्ट्वा राज्ञा सबहुमानं स्वमीपे स्थापितः, व्यतिकरश्च निवेदितः । धन्येनोक्तम्-'स्वामिन् ! जगति सत्यधर्मसदृशो न कोऽप्यस्ति, यो हि विश्वासस्यायतनम्। स्वामिन् ! अत्रानयोर्विभागो न केनापि कृतः, परं सत्यधर्म एव सत्यासत्यविभागं करिष्यत्येव, अत 'इमौ स्नानपूर्वकं दिव्यं कार्येते। तत्र यः सत्यो भविष्यति स सुखेन दिव्यं करिष्यति नेतरः' । इति धन्योक्तं राज्ञाऽप्युनुमतम् । तदा धन्येन एकः सनालकः करक आनायितः, सभायां स्थापितश्च । अनेकलक्षलोका विलोकनार्थमागताः । तौ द्वावपि सभायाम् आनायितौ, राज्ञः सम्मुखं स्थापितौ। ततो धन्येनोत्थाय तौ प्रत्युक्तम्-'युवां स्नानं कृत्वा धौतिकां परिधायात्र सभायां त्वरितमागमनं कुरुतम् । ताभ्यां तथा कृते पुनर्धन्येनोक्तम्'युवयोर्मध्ये यो सत्यधर्मप्रभावेण अस्य मुखेनाऽन्तः प्रविश्य नालकेन बहिनिःसरति स सत्यो धनकर्मा नाऽपरः । इति श्रूत्वा कूटधनकर्मा तु हर्षितः-'भव्य संजातं, देव्या बलेन अहं करकान्तः प्रविश्य नालकेन बहिरेत्य सत्यो भवामि । पश्चात् सधनं गृहं मदीयमेव' । मूलधनकर्मा तु चिन्तायां पतितश्चिन्तयति-२'अतिलघुकरकप्रवेशन-निर्गमने द्वे अपि सुदुष्करे, अमुना न्यायेन किं भविष्यति !'' इत्या? पतितः । पुनर्धन्येनोक्तम्-'भो देवी देवाः ! यद्यहं सत्यस्तदा अस्मिन्नेव करकमध्ये प्रवेश्य निर्गमनशक्तिं देयासुः" इत्युक्त्वा दिव्यं कर्तव्यम् । तत्र यः सत्यो भविष्यति स निर्गमिष्यति" | इत्युक्त्वा विरते धन्ये कूटधनकर्मा देवीबलेन करकान्तः प्रविश्य नालकेन निर्गतः । निर्गत्य च यावद् राज्ञः पादस्पर्शनं कर्तुं लग्नस्तावता धन्येन तस्य शिखां गृहीत्वा स रुद्धः, यतो व्यन्तराधिष्ठितशरीरी शिखाग्रहणे गन्तुं न शक्नोति। उक्तं च धन्येन-'स्वामिन् ! अयं तव चौरः, इतरस्तु सत्यः । अयं तु केनापि देवी-देवबलेन निर्गतः , परन्तु असत्यः । एषा हि विडम्बनाऽनेन कृता, अन्यस्य
१. अनयोः प्र०।२. करकगत-प्र०।
॥२४४॥
Jain Education and a
For Personal & Private Use Only
www.jainelibrary.org