________________
श्रीधन्य
सप्तमः
चरित्रम्
पल्लव:
॥२४३॥
गतौ । राजानं नत्वा स्वस्वदुःखनिवेदनं च कृत्वा स्थितौ । राजापि पूर्ववत् समाकारौ समवादिनौ च ज्ञात्वा श्रान्तो मन्त्रिण मादिशत्-'अनयोायं कुरुत' । मन्त्रिभिरपि अस्मिन् न्यायकरणे विविधवचनरचनया अनेकच्छलदृष्टान्ता दर्शिताः, पुनः पुनः प्रश्नकरण-वाक्छल-भयादयश्च दर्शिताः, परं क्लीवे तरुणीकटाक्षवद् निष्फलाः संजाता : न तो विचारमूढतामापन्ना राज्ञोऽग्रे गत्वा उक्तवन्तः- 'स्वामिन् ! अस्माकं यावद् बुद्धिविलसितं तावद् अनयोः सत्यासत्यविभागाय प्रयुक्तं तथापि न कापि शुद्धिरापतिता, प्रत्युत इयद्दिनधृतो बुद्धिगर्यो विफलतां गतः । इत्येवं मन्त्रिणां वाक्यं श्रुत्वा सविषादं राज्ञोक्तम्-'यदि अस्मत्सभायाम् अनयोर्निर्णयो न जायते तदा ममैव महत्त्वहानिर्जाता, अतोऽधुना किं कर्तव्यम् ?' । अस्मिन्नवरसरे केनाप्युक्तम्-'स्वामिन् ! बहुरत्ना वसुन्धरा कथ्यते, इदं भवदीयं पुरमपि महदस्ति । अत्र कोऽपि देवदत्तवरोऽतुलचातुर्यो वा चतसृणां बुद्धिनामाकरो बहुतरपुण्यनिधिर्वा पुरुषो भविष्यति, अतोऽस्मिन् पुरे किमपि अत्यद्भूतवस्तुप्रदानपणपूर्वकं पटहो वाद्यतां, तदा भवतां पुण्यबलेन किमपि तथा विधं पुरुषरत्नं प्रकटिष्यति, अनयोविभागं करिष्यति, भवत्सभाया महत्त्ववृद्धिश्च भविष्यति' । इति तदुक्तं श्रुत्वा राज्ञा आतुरत्वेन 'यः प्रतिभापटुः पुरुषश्रेष्ठोऽनयोः सत्यासत्यविभागं कृत्वा निर्णयति तस्य बहुधनयुक्ता धनकर्मणः सुता दीयते' इति अखिले पुरे पटहोद्घोषणा कारिता । अथ पटहोद्घोषणा त्रिक-चतुष्क-चत्वरेषु
वाद्यमाना यत्र धन्यः परिवसति तत्रागता । गवाक्षस्थितेन धन्येन श्रुत्वा ईषद् विहस्य सभ्यानामग्रे उक्तम्-'एतावत्यां राज्ञे +महत्यां सभायां केनापि निर्णयोऽपि न कृतः' । सभ्यैरुक्तम्-'स्वामिन् ! भवादृशैरतुलधीमद्भिर्विना कः करोति ?'। इति
श्रुत्वा धन्यः पटहं निषिध्य शीघ्रमुपभूपं गतः । राजापि अग्रतस्तम् उदन्तं श्रुत्वा हृष्टः, अवधारितवांश्च-'नूनमयं
|| २४३॥
Jan Education
For Personal & Private Use Only
Jww.jainelibrary.org