SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ २४१ ॥ Jain Education In 'गृहान्तः स्थितं श्रेष्ठिनं बहिर्नीत्वा उभयोः संयोगं कृत्वा पश्यन्तु, सत्यासत्यविभागो ' भविष्यति' । तदा केsपि कूटधनकर्मणः खान-पान - मिष्टवचन तृप्तास्तदधीना वदन्ति- 'कोऽयं धनकर्मा ? स तु गृहान्तः स्थितो आनन्दं करोति । कोऽप्ययं तु धूर्तः | समागतोऽस्ति' । तदा केनापि धीमता तत्त्वग्राहिणोक्तम्- 'भ्रातरः ! मच्चिते तु बहिर्गतोऽयं धनकर्मा सत्यः प्रतिभाति । कथम् ? - | प्रकृति - प्राणयोर्विगमनं सहैव भवति । कस्यापि तत्त्वश्रवणेन प्रतिबोधनात् कयापि रीत्या परावर्तनं भवेत्, परं न मूलतो याति । तस्माद् अयं तु मूलप्रकृत्या दृश्यते स तु प्रकृत्या अन्य एव भासते । कृपणोऽपि गुरुपदेशाद् दानादिकं करोति, तथापि योग्यायोग्यविभागग्रहणेनैव करोति, न तु इतस्ततो विकिरति । महता कष्टेन पापोद्यमेन च द्रव्यं मिलति, तस्य व्ययं यः करोति | तस्यैव हृदयं जानाति । दानकरणं मरणसदृशमेव कथ्यते लोके । गृहान्तर्गतो धनकर्मा तु यथा कस्यापि धनं कोऽप्यवसरे कस्यापि वैर प्रकृतेर्हस्ते चटितं भवति स यथा दृशौ पिधाय लुण्टयति तथा लुण्टयति । अतो मम चित्ते तु अयमेव सत्यः प्रतिभाति' । इत्येवं कोलाहलं श्रुत्वा वृद्धपुत्रो बहिरागतः । तं दृष्ट्वा मूलधनकर्मणोक्तम्- भो वत्स ! त्वया गृहान्तः कः संगृहीतः ?' । इत्युक्ते सोऽपि विभ्रमे पतितश्चिन्तयति - 'कोऽयमुपाधिरुत्थितः । इति चिन्तयता मौन माधाय गृहान्तर्गत्वा कूटधनकर्मणोऽग्रे सर्वो व्यतिकरो | ज्ञापितः । सोऽप्युत्थाय मया ह्यो दिने कथितं नाऽभूद् ग्रामे धूर्ताः समागताः सन्ति ?, तन्मध्यात् कोऽप्यागतो भविष्यति ! | | परन्तु असत्यं कथं निर्वक्ष्यति ?' इति वदन् बहिरागतः । सेवकाः सर्वेऽप्यूत्थिताः । अथ कूटेन मूलश्रेष्ठिने उक्तम्- 'कुत आगतोऽसि ? रे धूर्त ! कस्य गृहान्तः प्रवेष्टुमिच्छसि ?' । मूलधनकर्माऽवदत्-अहमेव अस्य गृहस्य स्वामी, मदीया १. यास्यति प्र० । २. तर्पिता प्र० । For Personal & Private Use Only सप्तमः पल्लवः ॥ २४१ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy