________________
श्रीधन्यचरित्रम्
सप्तमः
पल्लव:
॥२४॥
परिवृतो गच्छन् दृष्टः । तदाऽन्येनोक्तम्-'धनकर्मा तु अयमेव, यत एनं पश्यतो मम समग्रं जन्म गतमस्ति । यदि न भवेत् तदा होडां करोमि' । इति विविधवार्ता कुर्वन्ति, तद् मूलधनकर्मा किञ्चित् श्रृणोति। किञ्चिच मनसि चिन्तयितुं लग्नः-'किमप्यत्र कारणं विद्यत्ते !! परन्तु एकवारं गृहान्तः प्रविश्य सुस्थो भूत्वा पश्चाद् अस्य शुद्धिं करिष्यामि, इति ध्यायन् शीघ्र गृहाङ्गणं प्राप्तः, परं कोऽपि सेवको नोत्तिष्ठति, प्रणामं च न करोति । एवं दृष्ट्वा केऽमी?' इति विचिन्तयन् गृहे प्रवेष्टुं लग्नस्तदा सेवकैरुक्तम्-'क्व यासि ?, कस्य गृहे प्रविशसि ? इति श्रुत्वा चमत्कृतेन धनकर्मणोक्तम्-'भो अमुक ! किं त्वं मा नोपलक्षसे ? यतो बहुतरकालं मम सेवां कुर्वतां गतः । कथं तव अन्येषां च अद्य विपर्यासो जातः ? तदा सेवकैरुक्तम्-'याहि याहि, अन्यत्र धूर्तकलां कुरु, वयं तु विद्मः,ज्ञातो ग्रहो न पीडयति!' । श्रेष्ठिनोक्तम्-'किं सर्वेऽपि स्वामिद्रोहका जाताः ? । सप्ताष्टदिवसानां मध्ये विस्मृतिं गता यत् स्वस्वामिनमपि नोपलक्षन्ते' । सेवकैरुक्तम्-"कस्य स्वामित्वम्?, के तव सेवकाः ?, अस्मत्स्वामी तु आवासान्तरे बहुशुभेन चिरंजीवी राजते, त्वं तु कोऽपि धूर्त : कलया गृहं मोषितुमागतः । अस्मत्स्वामिना तु अग्रत एवोक्तमस्ति 'धूर्ताः समागताः सन्ति । अतः शीघ्रमपसर अतः प्रदेशात् । यदि अस्मत्स्वामी ज्ञास्यति तदा त्वां विषमदशां प्रापयिष्यति" । एवं परस्परं विवदमानेषु प्रातिवेश्मिका आगताः । तदा श्रेष्ठिनोक्तम्-'भो अमुकभ्रातरः ! पश्यन्तु भवन्तो यदहं युष्माकममुककार्योदेशमुक्त्वा अमुकग्रामे गतः । तत्कार्यं कृत्वा शीघ्रमागतः । एते बहुकालपरिचिताः सेवका अनुपलक्षका भूत्वा मम प्रवेष्टुं वारयन्ति' । इति तद्वाक्यं श्रुत्वा ते सर्वेऽपि विभ्रमे पतिताः विचारयन्ति, कोऽयं धनकर्मा ? गृहमध्ये को वा ?। अयमपि यद् वदति ततः सत्यं प्रतिभाति, गृहान्तर्गतोऽपि सत्यः प्रतिभाति!। अनयोर्मध्ये कः सत्यः को वाऽसत्यः?, विनाऽतिशयज्ञानिनं को जानीयात् ?। तदैकेनोक्तम्
॥२४॥
Main Education Inder!
For Personal & Private Use Only
S
w.iainelibrary.org