SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् सप्तमः पल्लवः ॥२३९॥ आगतः ?। केनापि कार्योद्देशेन अहमत्र आगतः, तस्यापि स्वल्पा एव वासरा जाताः सन्ति । अतस्त्वदुक्तं कथं संभाव्यते ?' | याचकेनोक्तम्-"किमर्थं वितण्डां करोषि ?। वयं याचका यथार्थवाचकाः, यथा दृश्यते तथैवोच्यते। हृदये मुखे च भिन्नाशयत्वेन जल्पनं भवदीयजातीनामेव दत्तं धात्रा। यदि न मन्यसे तत्र गत्वा विलोकय, सर्वं ज्ञास्यसि । परन्तु नगरे भ्रमणं कुर्वता मया एतत्तु श्रुतम् 'अयं धनकर्मा पूर्व महाकृपणोऽभूत्। अधुना तु दानगुणेन न कोऽपि अनेन सदृशो ज्ञातोऽस्ति' । अतो हे श्रेष्ठिन् ! मया यदुक्तं तत् सर्वं सत्यं जानीहि । ममाऽसत्यजल्पने कोऽवसरः ? । यथा दृष्टं तथैवोक्तं मया, नात्र सन्देहः कार्यः । न्यूनाधिकं किमप्यहं न वेद्मि । कल्याणमस्तु तव, अहं यामि'' । इत्युक्त्वा याचको गतः । श्रेष्ठिना चिन्तितम्-'इयं वार्ता तु उत्पातसदृशाऽसम्भावनीया, ना केवलम् असत्याऽपि भवेत्, किञ्चिद् न्यूनाधिका तु भविष्यति,परं न मूलतोऽसत्या। अतोऽहं शीघ्रं यामि, चेत् कार्यं भविष्यति पुनरागमिष्यामि । इति ध्यात्वा तद्दिनशेषे चलितो मार्गे कस्मिंश्चिद् ग्रामे उषितः, परं रात्रौ आर्तियोगाद् निद्रा नागता । आर्त्या रात्रिमतिवाह्य प्रभाते स्वपुरसम्मुखं चलितः । तदा कपटधनकर्मणा दैवप्रयोगेण ज्ञात्वा अग्रत एव द्वारपालकेभ्य उक्तम्-'भोः सेवका! अधुनाऽत्र नगरे बहुरूपिणो धूर्ता आगताः सन्ति। ते लोकान् विविधधूर्तकलया धूर्तयन्ति। केचित्तु कस्यापि गृहस्वामिनः सदृशं रूपं कृत्वा गृहान्तः प्रविश्य गृहसारं लात्वा गच्छन्ति । अतः सावधानतया स्थेयं, कोऽप्यज्ञातो गृहान्तर्विशन् वारणीयः' । अथ मध्याह्ने जाते मूलधनकर्मा स्वपुरं प्राप्तः, पुरं प्रविशन् लोकैदृष्टः । तं च दृष्ट्वा परस्परम् उपकर्णमागत्य कथयन्ति-'अहो ! T अद्यायं धनकर्मा, मूलवेषादि कृत्वा पादचारी च भूत्वा कुत आगच्छति?' | इत्युक्ते एकेनोक्तम्-नायं धनकर्मा,कोऽपि | धनकर्मसमानरूपः पथिको याति' । एकेनोक्तम्-'त्वं सत्यं वदसि !! यतो मयाऽद्यैव प्रभाते सुखासनाधिरूढो बहुभिः सेवकैः G॥२३९॥ in Education Inter For Personal & Private Use Only Mww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy