SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् सप्तमः पल्लवः ॥ २३८॥ याचकोऽपि तत्समीपमाग्त्य कूटधनकर्मणो यशो वर्णयितुं प्राह-'भो अमुकश्रेष्ठिन् ! लक्ष्म्याश्रिते लक्ष्मीपुरवरेऽधरीकृतकर्णबलिप्रमुखः, साक्षात् कुबेरावतारो मूर्तिमान् पुण्यप्राग्भारो वा किमु ?, ईदृशः समस्तदातृशिरोमणिर्धनकर्मा नाम्ना श्रेष्ठी निवसति । तेन मादृशानां बहूनां दारिद्योच्छेदः कृतः । वर्तमानसमये तु ईदृशो दारिद्यचूरको वाञ्छिताऽधिकदानपूरको मया न कोऽपि दृष्टः श्रुतो वा । अस्य मात्रा अयमेव जनितोऽस्ति। समस्तदातृगुणैर्भूषितो यादृशोऽयमस्ति तादृशो न कोऽपि भूतो न च भविष्यति !। किं बहु वर्ण्यते?, ब्रह्माऽपि तस्य गुणान् वक्तुं न क्षमो भवति' । इयं वार्ता पार्श्ववर्तिहट्टस्थितेन मूलधनकर्मणा श्रुता। श्रुत्वा च स्वचित्ते चमत्कृतः सन् चिन्तयितुं लग्नः-'अहो! मम नगरे धनी धनकर्मा तु अहमेवास्मि, अन्यस्तु न कोऽपि ईदृशो दृष्टः श्रुतो वा? अहं तु अत्रैवास्मि। कस्माचिद् ग्रामाद् आगतो वा अयं पुनः कः? इति साशङ्को याचकं प्राह-'त्वयोक्तो धनकर्मा कस्माद् ग्रामादागतोऽस्ति?'। याचकेनोक्तम्-'आगत आगतः किं वदसि ?, तत्पुरस्यैव अमुकपाटकनिवासी । साक्षात् स रुपेण भवादृशोऽस्ति, गुणैस्तु देवेभ्योऽधिकतरः । इति याचकोक्तं श्रुत्वा चित्ते महत्यार्ति संजाता। अयं 'वनीपकः किं वक्ति ?, नगरे मत्सदृशो न कोऽप्यस्ति, तर्हि मम पाटके तु कुतो भवेत् ?'। इति ध्यात्वा पुनः 'पृष्टम्-'भो याचक ! त्वं यत् प्रलपसि तद् मम चित्ते न तिष्ठति, अतः पुनः पुनः पृच्छां करोमि, 'यतः शतजिह्वो याचकः' । प्रतिक्षणं पृथग्भावतया जल्पनं भवदीयजातीनां भवति। अत उच्यते त्वं यद् वदसि तत् कस्यापि मुखात् श्रुत्वा ? अथवा स्वयं दृष्ट्वा ? अथवा भङ्गपानादिप्रमादाचरणं कृत्वा प्रजल्पसि ?। यतस्त्वदुक्तपाटकनायकस्तु अहमेव ! । मत्सदृशधन-व्यवसायादिभिः समानधुरावाहकोऽखिले नगरे न कोऽप्यस्ति, पाटके तु कुत १.याचकः । २. पृष्टः प्र०। ||२३८॥ in Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy