SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् सप्तमः पल्लवः आजन्मलग्ना कृपणता गता !। अस्मादृशानां पुनरीदृशी मतिः कदा भविष्यति ?' इत्येवं स्तुवन्ति केऽपि च वदन्ति-"अस्यायुः समीपमागतं दृश्यते येन आजन्मस्वभाविनिमयो जातः !! कालज्ञाने शास्त्रेऽप्युक्त मस्ति-आजन्मप्रकृतिरेकयैव हेलया प्रयत्न विना विनिमयतां याति तदा स्वल्पमेवायुज्ञेयम्"। यस्य मनसि यादृशं प्रतिभासते स तदेव वक्ति, को बहूनां मुखानि पिदधाति ?। पुनः कस्मिंश्चिद् दिने राजद्वारं गत्वा बहुमूल्यमुपायनं कृत्वा प्रणिपत्य च अग्रे स्थितः । राजापि तद् अभिनवं महाघम् उपायनं दृष्ट्वा रञ्जितः सन् सादरमालाप्य प्रतिवक्ति स्म-भोः श्रेष्ठिन् ! तव चित्ते ईदृशी उदारताबुद्धिः कथं संजाता?। पूर्व ही प्रतिपदं लोका स्तव कृपणतादोषमाविष्कुर्वाणा आसन, अधुना तु प्रतिक्षणं तव दान-भोगादिषु अत्युदारता श्रूयते तत्कथं संजातम् ?, सत्यं ब्रूहि । श्रेष्ठयपि पूर्वोक्तकल्पितमुनिदेशनादि प्रतिबोधकारणमवदत्।राजापि श्रुत्वा चमत्कृतः सन् वदति-'अहो ! अचिन्तनीयां जीवस्य गतिं सर्वज्ञं विना को जानाति ?' | इत्युक्त्वा यथोचितं प्रसादं दत्त्वा 'अस्मत्सदृशं कार्यं निवेदनीयं सुखेन, शङ्का न कार्या' इत्यादिवचनैः संतl विसृष्टः । सोऽपि प्रणामं कृत्वा उत्थितः,विचारयति च-'दानेन किं न भवति?, देवा अपि सानुकूला भवन्ति तत्र मनुष्याणां का कथा ? | इति विचारयन् गृहमागतः । अस्य तु प्रतिगृहं प्रतिपथं प्रतिग्राम याचकजनैर्यशः शोभा विस्तारिता, सर्वत्र विख्यातो जातः। अथ यत्र ग्रामे मूलधनकर्मा गतोऽस्ति तस्मिन् ग्रामे कोऽपि याचकः कूटधनकर्मणो याचित्वा इच्छाऽधिक-धन-वस्त्रा- | ऽऽभरणादि लब्ध्वा कूटधनकर्मणो यशो ब्रुवन् स्वग्रामं यियासुस्तत्रागतः । अथ चतुष्पथे मूलधनकर्मा एकस्य श्रेष्ठिनो हट्टे स्थितः सन् व्यापारादिवार्ता करोति तत्र पार्श्ववर्तिनि हट्टे स याचकोऽपि वस्त्राभरणभूषितो मार्गे गच्छन् केनाप्युपलक्षितेनालापितः । ॥२३७॥ Jain Education For Personal & Private Use Only Mww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy