SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ २३६ ॥ कदापि कृतम्, अतोऽवश्यं भवं सफलीकरोमि । इति कल्पनां ध्यात्वाऽऽगतोऽऽस्म्यहम् । भोः पुत्राः ! मुनिवचनोपकारेण धनधान्यादिषु निर्ममोऽहं जातः । कृपणतादोषेण गतकालो दुर्गतिपोषाय विहितो मया । युष्मत्प्रभृतीनां च दान| भोगादीनामन्तरायकारकोऽहं जातः । युष्माभिः सुपुत्रत्वाद् ममाशयानुकूलो निर्वाहः कृतः । अतो हे वत्साः ! साधुना धनादिकं सर्वम् अधिकरणत्वाद् बहुदुःखदायकतया ज्ञापितं, तेन धनादि पात्रसाद् कर्तुमिच्छामि । दानादिरहितोऽर्थः केवलम् अनर्थाय भवति, अतो दीनोद्धरण- सुपात्रपोषण - कुटुम्बप्रतिपालनरीत्याऽस्या भव्यं फलं गृह्णामि । तस्माद् युष्माकं त्यागभोगादिषु या इच्छा भवेत् सा कथनीया, सुखेनैव चाऽर्थो ग्राह्यः, मयाऽऽज्ञा दत्ता, पुनर्न प्रष्टव्यमः । अहं तु दानादिषु प्रगुणो भवामि । इत्युक्त्वा स कूटधनकर्मा दीनादिभ्यो यथेच्छया धनं ददौ । तथा सीदद्भयः स्वजनेभ्यो याचकेभ्यश्च स्वस्वेच्छतोऽप्यधिकं ददौ । एवं स्वल्पैरेव दिवसैरष्टौ धनकोट्यः कपटश्रेष्ठिना व्ययम् अकारिषत। नगरे पुनर्भव्यवस्त्राभरणानि परिधाय सुखासनेऽश्वरथे वाऽधिरुढो गच्छति तदा कोऽपि बालवयस्यः प्रियसखः पृच्छति-'भोः श्रेष्ठिन् ! अधुना तवेदृशी उदारत्याग-भोगप्रवृत्तिः कथं संजाता ? । तदा पूर्वोक्तं कल्पितव्यतिकरमुक्त्वा उत्तरं ददाति तदा केऽपि भव्यजना वदन्ति- 'निःस्पृहमुनिदेशनया को न प्रतिबुध्यते ?, किमाश्चर्यमत्र ? | पूर्वमपि श्रूयते शास्त्रे कालकुमार - दृढप्रहारि - चिलातिपुत्र -धनसञ्चयश्रेष्ठयादयः कुकर्मरताः कुमार्गपोषकाः कुमतिवासितान्तःकरणाः सप्तव्यसनसेवनप्रवणा महानिष्ठुरपरिणामास्तेऽपि मुनिदेशनया प्रबुद्धाः, तस्मिन्नेव भवे च जिनधर्ममाराध्य चिदानन्दपदं प्राप्ताः । तत्राऽस्य तु कियन्मात्रो दोषः ?, केवलं कृपणतैव, सा मुनिवचसा एत्येव । परन्तु अयं धन्यो अस्येदृशी १. पुत्रादिनामित्यभाषत प्र० । २. अकारि प्र० । Jain Education International For Personal & Private Use Only सप्तमः पल्लवः ॥ २३६ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy