________________
चरित्रम्
सप्तमः पल्लवः
अतः सत्पुरुषाणां लक्ष्मीलाभे प्रधानफलं दानम्। भोगस्तु मध्यमम्। येन पुरुषेण द्वयोर्मध्ये एकतरमपि न कृतं तस्य तृतीया श्रीधन्य-[..
गतिस्तु भवत्येव । पुण्यबले पूर्णे जाते दुर्गतिभ्रमणं दत्त्वा लक्ष्मीस्तु यात्येव । उक्तं च -- "पृथिव्याभरणं पुरुषः, पुरुषाभरणं प्रधानतरंलक्ष्मीः ।लक्ष्म्याभरणं दानंदानाभरणंसुपात्रंच"||२||
अतो भव्याः ! अतिदुर्लभतरं मनुष्यावतारं धनं चलब्ध्वा सुपात्रदाने प्रयत्नः कर्तव्यः । यत् सधनं मानुष्यं हि लब्धं तद् दुग्ध
शर्करासंयोगो लब्धः । एतद् द्वयं लब्ध्वा अभय-सुपात्रा-ऽनुकम्पो-चित-कीर्तिदानादिषु कथं सफलं न क्रियते? । यतो धनलाभे ॥२३५॥
इहलोके यावलक्ष्मीस्तावद् महत्त्वं, गतायां तु मानुष्यं तृणवद्, न कोऽप्युत्तरं ददाति । दाने दत्ता लक्ष्मीन याति, स्थिरा भवति। कदापि पूर्वसञ्चितबहुपापोदयेन गतायां सत्या मपि तस्या दातुमहत्त्वम् इहलोके न याति, परलोके तु अवश्यं लोकोत्तरमहत्त्वमाप्नोति । यदा धनी कृपणता दोषेण दानमात्रं न ददाति तदा तस्य प्रभाते न कोऽपि नाम गृह्णाति। यदि च कोऽपि नाम गृह्णीयात् तदाऽन्यस्तस्योपालम्भं ददाति--'किमस्य नीचस्य नामग्रहणं करोषि?, अदृष्टकल्याणकोऽयम् । इत्यादिअदातुः सहजफलम् । अतो भव्याः ! उभयलोकसुखदायके दाने यत्नोऽवश्यं विधत्त इति हार्दम्'।
इति मुनिदेशनां श्रुत्वा 'अहं मनसि चमत्कृतश्चिन्तयामि-'अहो ! अज्ञेन मयाऽतिदुष्करं नरभवं धनं च लब्ध्वा वहु हारितम्। किमपि ऐहिक-पारलौकिकं न विहितम् । केवलं दुर्गतिगमनस्यैव पुष्टिः कृता । कृपणतादोषेण इह किमपि न जग्धं भुक्तं च, केवलं | दीनवद् दुर्भरजठरपूर्तिः कृता। स्वयं न भुक्तं, पुत्रादीनामपिन भोगाय दत्तम्। न कीर्तिहेतवे याचकेभ्यो दत्तं, नच दीन-हीनोद्धरणं
१. धनकर्मणो रुपधारकश्चारणः ।
Jain Education Intercom
For Personal & Private Use Only
www.jainelibrary.org