________________
श्रीधन्यचरित्रम्
सप्तमः पल्लवः
।। २३४॥
कोकिलरुपेण वा दर्शयन्ति । तस्माद् हे भगवति वाणि ! अखिलसंसारिणाम् अहर्निशं ममाप्त्या एव महत्त्वं गण्यते। केवलम् एके केचन मोक्षार्थिनो ये मनुष्यास्ते तवोपासने रताः । तवैव महत्त्वं गणयन्ति ते नराः'
एवं लक्ष्म्योक्तं श्रुत्वा सरस्वती प्राह-'भगिनी। एकं तु तव महद् दूषणं यद् आत्मसेवकान् नरभवादिषु विभवादि दत्त्वा सुखं च दर्शयित्वा नरकाऽवटे पातयसि । निजाश्रितानां तु समुद्धरणमेव युक्तं महताम्' । एवं श्रुत्वा लक्ष्मीः प्राह- भगिनि ! विदुषी भूत्वा श्रुतजडत्वं किम् आविष्करोषि ? केवलमहं नरकावटे न पातयामि, किन्तु मोहराजप्रयुक्तानि विषया-ऽविद्या-व्यसनकाम-भोगादीनि नरकावटे पातयन्ति । मबलेन तु धनविवेकमतयः परमपदसाधनं कृत्वा चिदानन्दं प्राप्ताः श्रूयन्ते । शास्त्रेऽपि 'कनकाद् मुक्तिः' इति गीयते । एवं तु तवाप्त्या महद्भुताः श्रुतकेवलिनोऽपि मोहराजप्रयुक्तप्रमादाचरणेन अनन्तजीवास्तिर्यक्षु परिभ्रमन्ति तत् किं तव दूषणम् ?'। इत्येवं श्रुत्वा स्मित्वा च सरस्वती प्राह-"भगिनि ! एकं विवादभञ्जकं तव मम च महत्वपोषकं वाक्यं वच्मि तच्छृणु- येषां केषाञ्चिद् आवयोराप्तया सत्सङ्गीकरणे विवेक लोचनलाभस्ते त्रिवर्गसाधनपूर्वकं परमानन्दपदमश्नुवते' । लक्ष्म्योक्तम्-'इदं तु सत्यम्'। एवं भग्ने विवादे उभे अपि स्वस्थानं गते।
॥ इति लक्ष्मी-सरस्वत्योः संवादः॥ एवं पुराणादावप्युक्तत्वाद् भो भव्याः । श्रृण्वन्तु
"दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य। यो न ददाति न भुइवते तस्य तृतीया गतिर्भवति" ||१||
॥२३४॥
in Education Interational
For Personal & Private Use Only
www.jainelibrary.org