SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् सप्तमः 14/पल्लव त्याजयन्ति, आत्मसदृशांश्च कुर्वन्ति । पुनस्तप-जपाद्युपायैरवश्यं मां चेटीरुपेण सेवाकारणार्थमापातयन्ति । यस्य गृहे आहारमात्रं गृह्णन्ति तस्याङ्गणे मया लक्षकोटीरुपेणापतनं कर्तव्यं भवति । पुनर्मुनयः शुक्लध्यानेन ममेच्छाबीजानि संज्वाल्य केवलज्ञानं चोत्पादयन्ति तस्मिन्नवसरे विविधानि सुरनृन्दान्येकीभूय मम गृहं तेषां चरणयोरधो धारयन्ति, तस्यासनं ददति । पुनस्तस्योपरि स्थित्वा मम निर्मूलोच्छेदनरूपां देशनां ददति । बहून् आत्मसदृशान् कुर्वन्ति, परान् कांश्चित् देशविरतिं ददति। ते किं कुर्वन्ति?-ये गृहं स्थिता अपि व्यवहारशुद्धा परिग्रहपरिमाणं कृत्वा सत्य-सन्तोषाम्नायेन समधिकां मां समुत्पादयन्ति । नीति शास्त्रोक्तरीत्या निःस्पृहभावं दर्शयन्तः काम-भोगादिषु मां व्ययन्ति, समधिकं सहर्ष सप्तक्षेत्र्यां वपन्ति। अतिगाढतरवीर्योल्लासभावनाचूर्णक्षेपेण मां बन्धने क्षिपन्ति। प्रतिक्षणं सर्वजनसमक्षं मम निन्दां तिरस्कारं च कुर्वतः श्रुणोमि, तथापि तेषां गृहं त्यक्तुंन शक्ता प्रत्युत वृद्धिमाप्नुकामा इव वसामि।एकेन पुनः कुशलेन पुण्यानुबन्धिपुण्यबन्धेन मां बन्धे पातयन्ति, यस्य बलेन जन्मजन्मनि तेषां मम दासत्वं करणीयमापतति । प्रतिचरणन्यासं निधानं दर्शयन्त्या सर्वतो वृद्ध्या वर्धमानया निवसनीयं भवति । तेषां किमपि प्रतिकूलं कर्तुं न शक्ता । अन्ते पुनर्मा विगोप्य तृणवद् विहाय निर्वृत्तिपुरी यान्ति। ईदृशान् तथाविधान् जिनशासनोपासकान् विहाय सर्वेऽपि संसारिणो जीवा मम किङ्करा विद्यन्ते । तान् अहं सहस्त्रशो दुःखानि ददामि तथापि मम चरणोपासनां प्रीतिं च न मुञ्चन्ति । मदर्थं तप-जप-कायक्लेशाद्यनेकधा पापानुबन्धिपुण्यं कुर्वन्ति । परन्तु अहं तान् सर्वतो वृद्धि दर्शयित्वा नरकावासे पातयामि' तिर्यक्षु वा तेऽपि च सर्पादयस्तिर्यञ्चौ माम् आवृत्य निधानादि सेवन्ते। ये केचन कष्टबलेन देवेषूत्पद्यन्ते तेऽपि परकीयं भूमिगतं मद्रूपं द्रव्यमाश्रित्य निष्कारणं तत्रैव तिष्ठन्ति, लोकांश्च मृत्तिका १. संहतिः समूहः । २. कमलम् । ३. ठमलस्य। . ॥२३३॥ Jain Education For Personal & Private Use Only www.iainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy