________________
श्रीधन्यचरित्रम्
सप्तमः
पल्लवः
॥२३२॥
सरसभोजनात् पिपासा लग्ना' । स्वर्णकारोऽपि तदुक्तं श्रुत्वा चिन्तयति-'सवि-षमोदका अधुना चटितुं लग्नाः !। अतः परं पानीयं पीत्वा सर्वेऽपि भूमौ पतिष्यन्ति, दीर्धनिद्रां च गमिष्यन्ति। ततः परम् अहमेव सर्वं 'ग्रहीष्ये' । इत्यार्त-रौद्रं ध्यायन्ध्यायन् पानीयाकर्षणं कर्तुं लग्नस्तावता पूर्वसङ्कतितैस्तैः कूपान्तः पातितः चौरा अपि पुनर्घटिकामात्रान्तरे क्ष्वेडप्रभावेण मृताः । एतत्सर्वं "पद्मया 'वाण्यै दर्शयित्वोक्तम् --'भो वाणि ! दृष्टं जगदाश्चर्यम् ? । एतैर्दशभिरेकादशप्राणलाभाशया दश प्राणा दत्ताः, परन्तु एकादशो न केनापिलब्धः । अहं जनान् शतसहस्त्रसङ्कटेषु पातयामि, रोगैः पीडयामि, कशाघातैस्ताड्यामि, भिक्षाटनं कारयामि, कारागारे 'क्षिपामि, किं बहुना ? क्रुद्धो वैरी यद् न करोति तत्सर्वं दुःखमहं ददामि। तथापि संसारिणो जीवा मत्पृष्ठं न मुञ्चन्ति। मदर्थं माता-पिता-पुत्र-कलत्र-मित्र-भृत्य-गुरुप्रमुखान् वञ्चयन्ति, धर्षयन्ति, तेषां विश्वासघातं च कुर्वन्ति। कुल-जातिदेश-धर्मलज्जां च मुक्त्वा मदर्थं परिभ्रमन्ति । यत् कोऽपि न करोति, न जल्पति, तत्सर्वं "रमार्थी स्वीकुरुते। एकश्रीजिनवचनवासितान्तःकरणैर्गृहीतपञ्चमहाव्रतैः समं मम न चलति । ते ही विविधैः प्रकारैर्मा विगोपयन्ति, मम महत्त्वं नाशयन्ति। मम सन्ततिरूपाः काम-भोगाः, तानपि नासिकामलवद् दूरतो विच्छोट्य विगोप्य च, वने गत्वाऽशोकतरुमूले स्थित्वा, भारवद् सर्वं परित्यज्य, मुनिकल्पाः भूत्वा, मत्सङ्गतित्यागप्रतिज्ञां च कृत्वा प्रतिदेशं पर्यटन्ति। पुनर्यत्र कुत्रापि 'जनसंहतिसंयोगस्तत्र प्रत्यहं मां मम सूइंश्च काम-भोगान् निन्दन्ति । ते हि स्ववचनरचनया मम विषाणां च गुह्यान्युक्त्वा सर्वेषां चित्तानि मयि विषयेषु च विमुखीकुर्वन्ति । 'चपला कुटिला स्वैरिणी आदिनी कलङ्कानि दत्वा कियतां गृहाणि
१. पात्यते। २. ग्रहीष्यामि । ३. विषप्रभावेण । ४. लक्ष्म्या। ५. सरस्वत्यै । ६.क्षपयामि । ७. लक्ष्म्यर्थी। ८.पंच शब्दातोद्यानि ताडयन्तः इत्यधिकः पाठः प्र०।
।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org