________________
श्रीधन्य
चरित्रम्
॥ २३१ ॥
तस्माद् अयमपि कलादः स्वमातुरपि स्वर्णचोरकः । आत्मीयैर्भव्यं न कृत यद् अयं सहायीकृत्य अत्रानीतः, दर्शिता च शिला । प्रथमत एव किमपि मिषं कृत्वा घन-च्छेदनिकाद्यधिकरणमार्गणामकरिष्यन् (त) तदा श्रेयोऽभविष्यत् । अधुना तु अहि| गन्धमूषिकान्यायेन विषमम् आपतितम् । यतः -
“जा मति पीछे उपजें, सा मति पहेली होय । काज न विणसे आपणो, दुरजन हसे न कोय " ||१||
" किञ्च इयं हि शिला एकेन दिवसेन भङ्क्तुं न शक्यते; बहुदिवससाध्यं कार्यम् प्रभाते तु जाते लातुं शक्यं लात्वा वयम् | अयमपि च स्वस्वस्थाने स्वाश्रये यास्यामः । पुनर्गृहगतोयम् अनर्गलं सुवर्ण स्मृत्वा व्याकुलो भविष्यति । यस्य रतिमात्रं सुवर्ण | दृष्ट्वा चेतना विकलति तस्य पुनरिदमनर्गलं दृष्ट्वा किं न भविष्यति ? । अतो नूनमयं केनचिद् बलवता सह विभागं कृत्वा समग्रं गृहीष्यति, अस्मांश्च बहुद्रव्यहरणच्छलं मस्तके दत्त्वा सङ्कटे पातयिष्यति । अतोऽधुनात्र किं कर्तव्यम् ?" । तदैकेनोक्तम्-‘यदि | ममोक्तं कुरुत तदा न कोऽपि विघ्नो भवेत्' । तैरुक्तम्- 'कथम ?' । स आह-'घनच्छेदनिका तु हस्ते आगताऽस्ति । तया च घनच्छेदनिकया दृश्यमानमुपरितनविभागं लात्वा शेषं चाच्छाद्य गम्यते । पश्चात् प्रतिदिनमागत्य स्वसमीहितं करिष्यामः । अथ यदाऽयमागच्छेत् तदाऽस्य वक्तव्यम्- 'शीघ्रं शीघ्रं पानीयमाकृष, पुनः पिपासा लग्ना' । इति श्रुत्वा यदाऽयं जलाकर्षणार्थ कूपतटे | स्थास्यति तदा पृष्ठतः समग्रैरेकीभूय हस्तैर्घर्षयित्वा कूपान्तः 'पातयिष्यते । तदा च शीतलजलेन पामा गमिष्यति” । एतद्वचनं श्रुत्वा सर्वैरनुमतम् । अथ ते विरतास्तावता सोऽपि देहचिन्तां कृत्वा आगतः । तदा चौरैरुक्तम्- 'भ्रातः ! जलं निष्काशय, पुनः
१. भवति ।
Jain Education International
For Personal & Private Use Only
सप्तमः
पल्लवः
॥२३१॥
www.jainelibrary.org