________________
श्रीधन्यचरित्रम्
॥ २३० ॥
'नीतिविरुद्धकरणेन मया विडम्बना प्राप्ता, परन्तु अधुना सर्व तद्व्यतिकरं ज्ञापयिष्यामि' । इति कथयन् विषव्याप्तकुमारस्य समीपे गत्वा मण्डलं कृत्वा धूप-दीपादिमहाडम्बरपूर्वकं मार्जनं कर्तुं प्रवृत्तः । राजप्रमुखाः परितः स्थिताः पश्यन्ति । | नागदेवता कुमारशरीरेऽवतीर्य इति प्रोवाच- 'भो द्विजवर ! किमस्य दुष्टस्य राज्ञस्तनयस्योपकारं कर्तुं प्रवृत्तः ? । किं त्वया खरारोहणविडम्बना विस्मृता ?' । राज्ञोक्तम्- 'कथं मम दुष्टता ?' नागेनोक्तम्- 'तव पुत्रस्तु व्याघ्रेण मारितः । पश्चात् कियत्यपि काले गते दैवयोगेन वयं त्रीणि मित्राणि कूपान्तः पतितानि, चतुर्थः कलादश्च । अस्मिन्नवसरे निष्कारणोपकारी द्विजस्तत्रागतः । अस्माभिस्त्रिभिर्विज्ञप्तिः कृता । अनेन तु श्रवणमात्रेणैव वल्लयादिग्रथनादिबहुलप्रयत्नं कृत्वा निष्काशिताः । तदाऽस्माभिरेनं प्रणम्य शिक्षा दत्ता - अयोग्य-त्वाच्चतुर्थस्योपकारो न कर्तव्यः । इति कथयित्वा वयं स्वस्वस्थानं गताः । पश्चात् तेन दुष्टकलादेन चाटुवचनैर्विज्ञप्तो द्विजः । तदा उपकारशीलेन द्विजेन अस्मद्वचनं विस्मृत्य सो पि निष्काशितो गृहं प्राप्तः । द्विजस्तु तीर्थानि कृत्वा व्याघुटयमानो व्याघ्रेण दृष्टः । तेनोपकारं स्मृत्वा इमानि आभूषणानि दत्तानि । द्विजः पुनरत्रागतः । कलादेन सधनं ज्ञात्वा कपटवृत्त्या गृहे नीत्वा, आभूषणानि लात्वा, तवाग्रे प्रोक्तम् । त्वयापि विचारमूढेन किमपि अविमर्शनपूर्वकं विडम्ब्य द्विजस्येदृशी अवस्था प्रापिता । वानरेण शीघ्रमागत्य ममाग्रे प्रोक्तम् । अतोऽस्माकमुपकारिणो दुःखदायकं त्वां कथं मुञ्चामि ? | 'इष्टस्य पालनं दुष्टस्य दण्ड' इति नीतिं स्मृत्वा मया दष्टः " । ततो राज्ञा सर्वजनसमक्षं स्वात्मा निन्दितः । द्विजवरं नागं च | क्षमयित्वा कथितम्- 'यस्तवादेशो 'भवेद् तमहं करोमि । तदा नागेनोक्तम्-यदि त्वं लक्षप्रसादपूर्व दशसङ्ख्याकान् भव्यग्रामान् दद्यास्तदाहं मुञ्चामि । राज्ञा तथैव कृत्वा ब्राह्मणः पूजितः । कुमारो निर्विषो जातः । कलादं कृतघ्नं दृष्ट्वा स वधायादिष्टः । द्विजेन कृपया मोचितः ।
Jain Education International
For Personal & Private Use Only
सप्तमः
पल्लवः
॥॥ २३०॥
www.jainelibrary.org