________________
श्रीधन्य
चरित्रम्
॥ २२९ ॥
Jain Education In
विप्रः सहसा चौरवद् बध्ध्वा विडम्बनापूर्वकं राज्ञोऽग्रे आनीतः । राज्ञा दर्शनमात्रेण वधायादिष्टः । तदा सेवका अर्धमस्तकमुण्डनपूर्वकं रासभारोहणं कारयित्वा ताडयन्तो नगरे भ्रमयितुं लग्नाः । विप्रो मनसि । चिन्तयति- 'यद् मया तैस्त्रिभिरुक्तं न कृतं तद् ईदृशं फलं प्राप्तम्' । इति विचिन्तयति यावत् तावता वृक्षस्थेन तेन वानरेण दृष्टो विप्रः । चिन्तितं च-'अहो ! अस्मन्त्रयाणामयम् उपकारी विप्रः, तस्येदृशी अवस्था कथम् ?' । ततो जनमुखाद् व्यतिकरं श्रुत्वा विचारितम् -'नूनमयं कलादेन विडम्बितो मरिष्यति ! अथ कथमपि | अयं जीवितव्यः' । इति ध्यात्वा किमपि सर्पस्याभ्यर्णे गत्वा व्यतिकरो निवेदितः । सर्पेणोक्तम्- 'चिन्तां मा कुरु, सर्वं भव्यं | भविष्यति' । इत्युक्त्वा तेन सर्पेण राज्ञो वाटिकायां गत्वा कुलस्य बीजभूतो राजकुमारो दष्टः । स तु दर्शनमात्रेण शबवद् निश्चेष्टो भूत्वा पतितः । राजसेवका बुम्बारवं कुर्वन्तो राज्ञोऽग्रे गत्वा प्रोक्तवन्तः । राजापि किंकर्तव्यतामूढो जातः । मन्त्रवादिन आहूताः तैः | सर्वैरपि स्वकीयमन्त्रबलेन मार्जनादि कृतं परं नपुंसकाग्रे तरुणीविलास इव निष्फलं जातम् । राज्ञश्चत्वारो हस्ता भूमौ पतिताः, विलपितुं च लग्नः । तदा केनाप्युक्तम्- 'स्वामिन् ! नगरे पटहं दापयतु, कोऽपि गुणी मिलिष्यति' । राज्ञा पटहो दापितः - 'यः कुमारं जीवयति तं लक्षप्रसादं करोमि । अनया रीत्या पटहो वादयन् यत्र राजसेवकाः खरारोपितं द्विजं भ्रमयन्ति तत्रागतः । एतस्मिन्नवसरे | नागदेवतया देवानुभावेन अदृश्यतयाऽऽगत्य ब्राह्मणस्य कर्णे उक्तम्- "भो द्विजवर ! अहं कुमारं जीवयामि' इति पणपूर्वकं पटहं स्पृशतु । अहं स एव सर्पः तदा त्रयाणामुक्तं त्वया न कृतम् । अनर्हस्योपकारस्य फलमीदृशं पश्यतु । तदा तेन द्विजेनोक्तम्- 'भो राजसेवका! मां मुञ्चत, अहं राजकुमारं सज्जीकरोमि । तदा राजसेवका राज्ञोऽग्रे धावन्तो गताः, निवेदितं च तदुक्तं सहर्षम्। राज्ञोक्तम्'निर्बन्धं कृत्वा आनयत तं द्विजम्' । सेवकैस्तथैव कृत्वाऽऽनीतो द्विजो राज्ञः समीपे। राज्ञोक्तम्- 'भो द्विजवर ! कुमारं जीवय । ज्ञायते त्वयैव मारितस्त्यैव दत्तः । यथा विडम्बितस्तथा पूजापात्रम् अधिकतरं भविष्यसि अतस्त्वरितं कुरु' । द्विजेनोक्तम्
For Personal & Private Use Only
सप्तमः
पल्लवः
|॥ २२९ ॥
www.jainelibrary.org