________________
श्रीधन्यचरित्रम्
सप्तमः पल्लवः
॥२२८॥
विक्रीय रोक्यनाणकं करोमि' । इति ध्यात्वोक्तम्-'भो भद्र ! मम पार्श्वे केनापि दत्तानि भूषणानि सन्ति, तानि विक्रीय नाणकं कृत्वा 'देहि। तेनोक्तम्-'दर्शयतु भवान्, शिरोबलेन भवदीयं कार्य करोमि' । तदा द्विजेन तानि सर्वाणि आभूषणानि दर्शितानि। तानि दृष्ट्वा कलादेनोपलक्षितानि - "अहो ! इमानि तु राजकुमारस्य, यो हि राजपर्याया) राजकुमारः पुरा वक्रशिक्षिताऽश्वेन दूरे | वने नीतः । तत्र केनापि मारितः । तस्य शुद्धिनिमित्तम् अनेके उपायाः कृताः, परन्तु शुद्धिर्न प्राप्ता । तदा राज्ञा पटहो वादितः - 'यः कोऽपि कुमारस्य जीवनस्य मरणस्य वा शुद्धिमानयति तस्य महाप्रसादं करोमि, स्वकीयं च कृत्वा ज्ञापयामि' तथापि शुद्धिर्न प्राप्ताः, साऽद्य प्राप्ता । अतोऽहम् इदं कियद् दर्शयामि, राज्ञो वल्लभो भवामि, राजकीयं प्रसादं प्राप्नोमि, कियद् आभूषणमपि हस्ते स्थास्यति। अनेन द्विजेन मम किं प्रयोजनमस्ति? गृहे स्थितः प्रत्युत खान-पानादिद्रव्यव्ययं करिष्यति!" इति ध्यात्वा आभूषणानि हस्ते लात्वा विप्रं प्रत्याह-'स्वामिन् ! सुवर्णपरीक्षणं तु अहं वेद्मि, न तु रत्नस्य अत इमान्याभूषणानि रत्नवणिजो दर्शयित्वा, मूल्यं विशदं कृत्वा, विक्रीय, धनं लात्वा ददामि। यूयं सुखेनात्र तिष्ठत' । ततः स कलादो भूषणानि लात्वा उपराजं गतः । राज्ञा पृष्टम्-'कथमागतः ?' | स प्राह- 'कुमारस्य शुद्धिर्मयाऽऽप्ता, तन्निवेदनार्थमागतोऽस्मि' । इत्युक्ते राजाऽपि ऊर्ध्वकर्णो भूत्वा 'कथं कथम् ?' इति प्रोक्तवान् । तदा कलादेन आभूषणानि दर्शितानि । राज्ञापि दर्शनमात्रेणोपलक्षितानि । तं 'केनानीतानि', इति राज्ञा प्रोक्तम् । कलादेनोक्तम्-'एषां हारको विप्रो मम गृहे स्थितोऽस्ति, तेन मम विक्रयकरणार्थं दत्तानि । मया स्वामिने दर्शितानि'। राज्ञोक्तम् -'त्वया भव्यं कृतम् । त्वं तु आत्मीयो जातः । इत्युक्त्वा सेवकानाहूय आज्ञा कृता-'भो भोः सेवका! धावत, धावत अस्य गृहे स्थितं द्विजं बध्ध्वा विडम्बनापूर्वकमत्रानयत'। तदा त्वरितंधाविता राजपुरुषाः । कलादगृहस्थितश्च
१. मम । २. तस्यैव । ३. दापय । ४. जीवनमृतयोर्वा । ५. कारियिष्यति ।
॥२२८॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org