________________
श्रीधन्यचरित्रम्
॥ २२७ ॥
Jain Education Inte
अतिदीनतागर्भिता विज्ञप्तिः कृता, तदा मम चेतसि महती करुणोत्पन्ना, तेन निष्काशितः । व्याघ्रेणोक्तम्- भव्यं न कृतं, परन्तु अतः परं सङ्गो न विधेयः' । इत्युक्त्वा नत्वा च स व्याघ्रो गतः । ब्राह्मणोऽपि आजन्मदारिद्यनाशकानि आभरणानि प्राप्य सोत्साहं | तस्य आशीर्वचनं दत्त्वाऽग्रहश्चलितः । मार्गे गमनं कुर्वता चिन्तितम् - इमान्याभरणानि अग्रेऽतिभयाकुलमार्गे कथं निर्वक्ष्यामि ? | तस्माद् नगरे गत्वा, इमानी विक्रीय, रोक्यनाणकं कृत्वा, पश्चाद् भव्यव्यवहारिणो हट्टे गत्वा, पत्रिकां कारयित्वा सुखेन निर्भयं गृहं यामि' । इति संप्रधार्य नगरे आगतः । नगरान्तः प्रविष्टः सन् चतुष्पथे तादृशजनगवेषणार्थं परिभ्राम्यति । ततो हट्टस्थितेन कलादेन दृष्टः चिन्तितं च- 'सोऽयं ब्राह्मणो येनाहं कूपाद् निष्काशितः' । कक्षायां ग्रन्थिम् अमूल्यं मुद्रादिकं च दृष्ट्वा चिन्तितम्'अनेन देशाटनं कुर्वता किमपि धनं सुवर्णादिकं लब्धं दृश्यते अतोऽयं यदि विक्रयं कुर्यात् तदा मम कार्यं भवेत् !' । इति ध्यात्वा आपणादुत्थाय त्वरितगत्या विप्राऽभ्यर्णं गत्वा 'अहो ! अद्य मम भाग्यानि जागरितानि, अद्य मम गृहेऽतर्किताऽमृतघनवृष्टिः संजाता । अद्य मम गृहङ्गणं कामगवी स्वयमागता । अद्य मम मनोरथाः सफला जाता येन यूयं जीविता मिलिताः' । इति ब्रुबता द्विजस्य चरणौ अन्तरा मस्तकं दत्तम् । क्षणं स्थित्वा उत्थाय च हस्तौ योजयित्वा विज्ञप्तिं कर्तुं लग्नः - स्वामिन् ! आगम्यतामस्मद्गृहे, स्वचरणन्यासेन पवित्रीक्रियतामस्मद्गृहम् । इति शिष्टाचारं दर्शयता स्वगृहे नीतो ब्राह्मणः । मुग्धविप्रस्तस्य अतिचाटुवचनानि श्रुत्वा रञ्जितश्चिन्तयति- 'अयं कोऽपि अतीवगुणग्राहको यद् 'मया कृतमुपकारं न विस्मरति । कोऽपि अतिसुजातो दृश्यते, तस्याग्रे किमन्तरं कार्यम् ? । अयं मम सर्वं कार्यं करिष्यति, अतो व्याघ्रदत्तानि भूषणानि तमेव दर्शयामि अस्यैव हस्ते
१. कारयित्वा । २. करोति । ३. भवति ।
For Personal & Private Use Only
सप्तमः
पल्लवः
॥॥ २२७॥
www.jainelibrary.org