SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य सप्तमः चरित्रम् पल्लवः ॥२२६॥ कर्तु लग्नाः-'भो भट्टा ! युष्माभिस्तु निष्कारणोपकृतिः कृता । अतः परं शतशः प्रत्युपकारान् कुर्मस्तथापि सुप्रत्युपकारका न भवामः । तथापि कस्मिंश्चित् शुभेऽवसरेऽस्मदाश्रये कृपां कृत्वाऽऽगन्तव्यम् यथा भक्त्यनुरुपां सेवां करिष्यामः । परन्तु अधुनाऽयं मनुष्यः कूपाद् न निष्काशनीयः, यतोऽयं कलादिजातीयोऽस्ति, उपकाराऽनर्होऽस्ति' इति बहु विज्ञप्त गतास्ते त्रयोऽपि स्वस्वाश्रये । गतेषु तेषु द्विजस्तु शङ्कायां पतितः, चिन्तयति च ' अथ चैनं' निष्काशयामि वा न ?' | इति संशयदोलायां स्थितः । तदाऽन्तःस्थितेन कलादेनोक्तम्-भो द्विजवर ! लोकानामुद्वेगकारकाणां विवेकविकलानां च व्याघ्रा-वानर-सर्पाणाम् उद्धारस्त्वरितः कृतः, कथं ममावसरे विलम्बसे ? । अहं तु मनुष्योऽस्मि, किं व्याघ्र-वानर सर्पादपि दुष्टतरः ? । किमहं तवोपकारविस्मरणशीलो भविष्यामि? अतो मां निष्काशय । आजन्म तव सेवको भूत्वा स्थास्यामि' । मुग्धेन द्विजेन चिन्तितत्सत्यं वक्ति, किमयं नरस्तिर्यग्भयोऽपि गतः?। परन्तु यद्भवितव्यं तद् भवतु, उपकारिणां पङक्तिभेदो न युक्तःतैरपि सत्यमुक्तं, परं ममाऽनेन सह किं दुष्कार्यमस्ति? | अहं दूरदेशान्तरवासी अस्मि, अयं तु अस्यैव मण्डलस्य वासी, किं करिष्यति माम् ?' | | इति विचिन्त्य कलादोद्धरणं कृतम् । तदा कलादेन द्विजं प्रणम्योक्तम् - त्वं तु मम जीवितदायको जातः, अतो ममोपरि कृपा कृत्वा अमुकनगरेऽमुकपाटके वसामि तत्रागन्तव्यम्, शक्त्यनुरूपां तव भक्तिं करिष्यामि' । इति वाग्विलासं कृत्वा गतः। द्विजस्तु अष्टषष्टितीर्थेषु भ्रान्त्वा पुनः परावृत्य व्याघुट्यमानः कियत्यपि काले गते तत्र कान्तारे आगतः । दैवाद् व्याघ्रण दृष्ट उपलक्षितश्च । 'सोऽयं मम जीवितदाता महोपकारी' इति स्मृत्वा सबहुमानं पादौ अभिवन्द्य पुराहतराजकुमारसत्कानि अनेकलक्षमूलयानि आभरणानि दत्त्वोक्तम्-स्वामिन् ! अस्मत्त्रयाणामुद्धरणानन्तरं तस्य कलादस्योद्धारः कृतो नवा ? | द्विजेनोक्तम-'तेन |||२२६॥ in Education intellig For Personal & Private Use Only wjainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy