________________
श्रीधन्यचरित्रम्
॥ २२५ ॥
Jain Education
शीघ्रं शीघ्रं गत्वा ते सर्वे शिलोपकण्ठं प्राप्ताः । अथ चौरैर्हेमकाराय शिला दर्शिता । सोऽपि तां दृष्ट्वां स्पृष्ट्वा च मनसि | लोभलत्ताप्रहारेण विह्वलो भूत्वा चौराणामग्रे आहारग्रन्थिं ढौकयित्वा निर्विषं मोदकं स्वहस्ते कुर्वन् इत्युवाच - "हे स्वामिनो भाग्यनिधयः ! युष्माकमुपरि विश्वम्भर स्तुष्टो यद् भव्यमिदम् अपरिमितं हाटकं भवद्धस्ते दत्तम्, अतो यूयं भाग्यवताम् अग्रण्यो दृष्टाः । भवदीयप्रसत्त्या च ममापि दारिधं गतम् । अतः प्रथमं 'शतं विहाय भोक्तव्यम् -' इति नीतिशास्त्रोक्तं वचनमङ्गीकृत्य भुज्यन्ताम् इमे घृताक्ता मोदकाः, पश्चाद् सज्जीभूय दारिद्यविकलताकारकान् शिलायाः शकलान् करिष्यामः' । इत्युक्त्वा पण्णामपि चौराणां प्रत्येकम् एकैको मोदको दत्तः । तैरपि स्वायुरपनोदका मोदका भक्षिताः तृप्तिं च प्राप्ताः । तदा कलादेनोक्तम्-‘आगम्यतां मत्पृष्टे कूपोपकण्ठे, जलं निष्काशयामि, तेन आचमनं कृत्वा हस्त-पादान् प्रक्षाल्य कार्याय प्रगुणीभवामः' । इत्युक्त्वा 'सर्वेऽप्यन्धुतटे गताः । कलादेन कूपाज्जलं निष्काश्य सर्वान् जलपानं कारितम्, स्वयं चाऽपि पीतम् । ततः स्वर्णकारस्य जलपानमात्रेण नीहारशङ्का जाता, तदा स जलपात्रं गृहीत्वा देहचिन्तायै गतः । चौरास्तु एकीभूय मन्त्रयितुं लग्नाः- 'अधुना शिलायाः खण्डान् कर्तु प्रवर्त्तयामः'। तदैकेन नीतिकुशलेनोक्तम्- 'युष्माभिरेकं भव्यं न कृतम्' । अन्येनोक्तम्- किं किम् ?'। तेनोक्तम्- 'यत् कलादोऽत्रानीतो, हाटकं च दर्शितं तद् भव्यं न कृतम् । यतः शास्त्रेषु लोकव्यवहारेषु चोक्तम् - कलादोऽविश्वसनीयो भवति' । पुरा वार्तायां किं न श्रुतमस्ति यत् - ॥ व्याघ्र - वानर - सर्प- स्वर्णकाराणां कथा ||
‘‘कूपान्तःपतितानां व्याघ्रवानर - सर्प-कलादानाम् एकेन द्विजवरेण प्रथमत्रयाणामुद्धारे कृते त्रयोऽपि प्रणामपूर्वकं विज्ञप्तिं १. व्यञ्जनादिकम् । २. शिलासमीपम् । ३. विष्णुः । ४. घृतसिक्ताः । ५. अन्धुः कूपः ।
For Personal & Private Use Only
सप्तमः
पल्लवः
॥॥ २२५॥
www.jainelibrary.org