________________
श्रीधन्य
चरित्रम्
सप्तमः पल्लवः
॥२२४॥
गृहीत्वाऽऽगमिष्यामि । तस्माद अहं बुद्ध्या एवं करोमि यथा तत्सर्वमपि मदीयं भवेत्, तदा च मम बुद्धिकौशल्यं श्लाघ्येत । एते चौराः परस्वहरणतत्पराः सर्वेषां दुःखदायकाः, एषा वञ्चने को दोषः? बहूनां दुःखोत्पादकानां निग्रहः कर्तव्य एव इति नीतिर्वदति तद् धनमपि एषां जनकानां, स्थापितं नास्ति यद् लोकविरुद्धं पातकं ' लगेत्। तस्माद् एतान् निगृह्य सर्व तद् आत्मसात् करोमि। | यतो ममैव भाग्योदयेन आकृष्य आगताः सन्ति, अतो वदनागतं कथं मुञ्चामि?"| इति परिभाव्य चौराणामग्रे उक्तं कलादेनभोः स्वामिनः ठक्कुराः ! अहमद्य सन्ध्यायाम् अकृतभोजनोऽस्मि, रसवती तु अधुना भविष्यति, यूयमपि क्षुधिता भविष्यथ, | कार्यं च महाप्रयाससाध्यमस्ति, क्षुधितेन च बलस्फूर्तिः कर्तुंन शक्यते, बलस्फूर्ति विना च कार्यमपि न जायते, अतो घटिकाद्वयमात्रं | मद्गृहे स्थितिं कुरुत, यतोऽहं शीघ्रं घृतपूर्णान् चतुर्मोदकान् निर्मापयामि, पश्चाद् मोदकानादाय तत्र गमिष्यामः। तत्र गत्वा च मोदकान् भुक्त्वा सज्जीभूय कार्यं करिष्यामः । स्वामिनोऽपि ज्ञास्यन्ति सेवकस्य हस्तस्फूर्तिम् । अद्यैव रजन्या तस्याः खण्डान् कृत्वा दास्यामि । पश्चाद् यादृशी मम प्रयासक्रिया भवेत् तादृशी भवद्भिर्दानप्रसत्तिः करणीया भविष्यति । अहं तु युष्माकं सेवकोऽस्मि,युष्माकमनुवृत्या जीवामि ! । भवतां कार्यं शिरोबलेन करिष्यामि' । इति वार्तया तान् रञ्जयित्वा, स्वगृहान्तीत्वा,ताम्बूल-धूमयन्त्रपानादिकं कारयित्वा, गृहोपरितनभूमौ गत्वा गोधूमपिष्ट-घृत-गुडादिना संस्कार्य मोदका निष्पादिताः सप्त सख्यया। तन्मध्ये षड् बृहत्तरा मोदकाः सविषा निष्पादिताः, सप्तमस्तु स्वकीयभोजनार्थं निर्विषः। अथ आर्द्रपत्रैः परिवेष्ट्य, 'सन्धानादिकं च मध्ये मुक्त्वा,ग्रन्थिं बद्ध्वा, लोहधन-च्छेदनिकां च लात्वा, चौरसहायको भूत्वा गृहान्निर्गतः ।
१. भवति। २. लगति। ३. शिरसा बलेन।
।। २२४॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org