________________
श्रीधन्य
प्रथमः
पल्लवः
AND
तिष्ठति उत धर्मबलेन ? । यद्यात्मबलेन तिष्ठति तदा लोके सर्वेऽपि धनार्थिनः, बहुलाः कृपणाः सन्ति । प्रतिदिनं मितंपचरीत्या द्रव्यं न व्ययन्ति, तदा तु तेषां गृहे लक्ष्मीः स्थिरा युज्यते, तत्तु न दृश्यते। धर्मबलेन तु प्राप्ता लक्ष्मीः पुनर्धर्मे युज्यते तदा वृद्धिं याति, यथा जलेनोदितो वृक्षः पुनर्जलसिञ्चनेन वृद्धिं यात्येव । पूर्वजन्मनि कृतपुण्यबलेन प्राप्ताः लक्ष्मीः पुनः पुण्येन वर्द्धते। ते भोगास्तु आनुषङ्गिकफलाः, यथा जलेन सिच्यमानो वृक्षोऽखण्डस्तिष्ठति, तत्र फलादि लभ्यते तदानुषङ्गिकं फलं, वृक्षस्तु अखण्ड एव, एवं धर्मेणापि । यथा कूपजलं निष्काश्यमानं क्षयं न याति, चेन्न निष्काश्यते तदा वृद्धिमपि नाप्नोतिः एवं धर्मेण प्राप्ता लक्ष्मीर्दानभोगे युज्यमाना क्षयं न याति, प्रत्युत वृद्धि याति; नात्र सन्देहः । सर्वेष्वपि दर्शनेषु सर्वशास्त्रेषु एकैव रीतिः, ततः शास्त्रकारकान्न वयमधिकाः । अतो धर्मो मुख्यवृत्त्या ज्ञेयः, भोगास्त्वानुषङ्गिकाः अतो द्विजवर ! विपर्यासबुद्धिं त्यक्त्वा धर्मे रतिं कुरुत' । इत्युक्त्वा श्रेष्ठी तु स्वशय्यायां सुप्तः, निद्रा च प्राप्ता।
द्विजस्तु सन्देहदोलायां पतितश्चिन्तयति-'धर्मपुण्येन लक्ष्मीर्वर्धते' इति सर्वशास्त्राणि वदन्ति, तदपि मिथ्या कथमुच्यते ? व्ययिते तु सर्वमपि धनं व्ययं याति, कोऽपि रक्षको न दृष्टः ? एवं ध्यायताऽर्द्धरात्रिसमये एकावरतरुणी द्वारमुद्घाट्य गृहमध्ये आगता समस्ताभरणैर्भूषिता दिव्यरूपा द्विजेन दृष्टा । चिन्तयति च-'अहो ! अयं श्रेष्ठी मुखे तु धर्मपक्षमुद्गृह्णाति, कार्याणि त्वीदृशानि परस्त्रीगमनादीनि करोति। इयं परकीया काऽपि पूर्वसङ्केतिताऽऽगता। अस्य स्त्रियं त्वहमुपलक्षयामि, सा तु नास्ति, इयं तु परदाराः । अयं श्रेष्ठी मासाहसपक्षितुल्यो दृश्यते, अस्य वचसि का प्रतीतिः? पश्यामि, कथमागता? किं करोति? मदीयां | मर्यादां कुरुते नवा, उभावपि निर्लज्जौ वा ? पश्याम्यत्र कौतुकम् । तदा सा स्त्री श्रेष्ठिनः पर्यके विष्वक् परिभ्रम्य श्रेष्ठिन | उत्तरीयकवस्त्रस्य पल्लंव घूपघटिकायां पतितं दृष्ट्वा शीघ्रं समुत्पाट्य हस्तेन मर्दयित्वा विधाप्य पर्यङ्के मुक्त्वा घटीं च किञ्चिद् |
॥१६॥ .
Jan Education
email
For Personal & Private Use Only