SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् सप्तमः पल्लवः ॥ २२२॥ यद मह्यं देव्या निधिदर्शित!' । इमां तु पुरा केनापि राज्ञा सुवर्णरसमयीं शिलां निर्माप्य भूमौ निधितया स्थापिता भविष्यति'। पश्चाद् अतिबहुतरे गते काले मेघवृष्ट्यादिना मृत्तिका जले प्रवाहिता, पवनेन च शिलैकदेश उद्घटितः । 'इतश्च भ्रमन् अयं | जटिलोऽत्रागत्य शिलैकदेशं दृष्ट्वा लोभात् स्वकीयं कृत्वा स्थितः । समग्रां तु इमां ग्रहीतुं न शक्नोति, तस्माद् अस्माकमग्रे दम्भरचनां कृत्वा कीदृशीं रचनां करोति? यत् 'प्रतिमनुष्यं सहस्त्रसहस्त्रधनमूल्यं दास्यामि !' । अर्ध न, तृतीयांशं वा चतुर्थां शं वा पञ्चमांशं व सप्तमांशं वा न हि, सर्वम् अहमेकाक्येव ग्रहीष्यामि । किम् अस्य जनकस्य सत्कं धनं यद् एवं विप्रतारयति? । अत एनं हत्वा सर्व वयं ग्रहीष्यामः' ! तदां एकेनोक्तम्-'तपस्विनं कथं मारयामः ?' द्वितीयेनोक्तम्-अस्य तपस्वित्वं तु गतम्. एष तु वञ्चको धूर्तोऽस्मत्सदृशः । वयं चौरा अयं धूर्तः, परद्रव्यग्राहको उभावपि, कोऽस्य हनने दोषः ?। एतत्सर्वं धनम् आत्मीयानां हस्ते आयाति चेत तदा सर्वैः ठक्कुरपदं भुज्येत' चौरकर्म च च्छुट्येत । तस्माद् एनं हत्वा सर्वं धनं ग्रहीतव्यम् । इति मन्त्रणं कृत्वा द्वाभ्यां जटिलो वार्तायां प्रवर्तितः, अपरेण च पृष्ठतः खड्डोन तस्य शिरश्छिन्नम्। पश्चात् तैः सर्वैरपि चौरैरुपशिलं गत्वा हस्तैः स्पृष्टा सुवर्णरसमयी शिला । घननिबडा शिला' ज्ञात्वा विचारयितुं लग्ना यद्-'इयं शिला आत्मीयहस्तगतखनित्रादिशस्त्रैश्छेत्तुं शक्या नास्ति । समग्रा तु न केनापि गृह्येत । अस्यामेव रात्रौ यद् गृह्यते तद् अस्मदीयं, दिवसे जाते तु अनेकविघ्नाः समुत्पद्यन्ते'। तदैकेनोक्तम् - 'घन-च्छेदनिकाभ्यां विना चिन्तितार्थप्राप्तिर्न भवेत्, तस्माद् अमुष्मिन् नगरेऽमुकनामा सुवर्णकारोऽस्ति, आत्मीयजातीयानां परिचितोऽस्ति, विश्वासविश्रामभाजनमस्ति; अतस्तस्य गृहे गत्वा, रहस्यम् उक्त्वा, धन-च्छेदनिकादिकं ॥२२२॥ १.व्ययिष्यामः। २. तत्र। ३. गतः। in Education in For Personal & Private Use Only aww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy