SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य सप्तमः चरित्रम् पल्लव: ॥२२१॥ मार्गनिकटवर्तिं धनं कथं प्रच्छन्नवृत्त्या स्थास्यति?' अतो नोऽत्र स्थापनीयम् इदं समग्रम् उत्पाटयितुं न शक्यते केनापि; अत इदं खण्डशः कृत्वा, कस्मिंश्चिद् अगोचरस्थाने भूमौ निधाय तदुपरि मढिकां कृत्वा तस्यां निवसनं क्रियते तदा चिन्तितार्थ सिद्धिर्भवेत्। परन्तु धन-च्छेदनिकादिलोहशस्त्रं विना कथमस्याः खण्डान् करोमि ?, अतः कस्यचित् पार्थात् तानि गवेषयित्वा लात्वा च पश्चात् स्वसमीहितं करोमि । परम् अधुना तु रात्रिर्जाता, कथं करोमि ?, क्व गच्छामि ? । यदि चैनां विमुच्य कस्मिंश्चिद् ग्रामेऽधिकरणानयनाथ यामि पृष्ठतश्च कोऽपि बलवान् आगत्येमां गृहीत्वा तिष्ठेत् तदा चिन्तितमन्तर्गडु जायेत' इति सङ्कल्पजाले पतितस्तावता तत्र विविधशस्त्रहस्ताः षट् चौराः आगताः तं नग्नजटिलं दृष्ट्वा नत्वा चैवमूचुः-'भोः स्वामिन् ! अस्मिन् निर्जले निर्मनुष्ये चारणा यूयं कथं निवसथ ?' । इति चौरोक्तं श्रुत्वा जटिलेनोक्तम्-'अस्मादृशानां मुक्तसङ्गानां वनवास एव श्रेयान्। ये केवन महातपस्विनस्तेषामियमेव रीतिर्गी यते। परन्तु यूयं कथं गृहं विहाय यामरात्रिसमयेऽरण्यमागताः स्थ?' तदा तैरुक्तम्'युष्मादृशानामग्रे किम् असत्यं वदामः' वयं तु चौराः स्मः । दुष्पूरोदरपूरणार्थं चौर्यार्थं गच्छामः । इति तेषांः वचः श्रुत्वा जटिलेन + चिन्तितम्-'एते धनार्थिनः सशस्त्राः, अत एतान् किमपि धनमात्रं दत्त्वा तस्याः खण्डान् कारयामि' । इतिध्यात्वा तान् प्रत्युक्तम्'भोः चौराः! यदि मदुक्तं कुरुत तदा युष्मान् प्रतिजनं सहस्रसहस्र दीनारान् ददामि । चौरैरुक्तम्-'बहु भव्यम्, वयं तव सेवकाः स्म । यद् आज्ञापयिष्यसि तद् वयं करिष्यामः । तदा जटिलेन सा शिला दर्शिता उक्तं च-'मया तपोबलशक्त्या वनदेव्या आराधनं कृतम्, तया च प्रसन्नया निधिदर्शितः । अतोऽस्य खण्डान् कृत्वा तीर्थे तीर्थे 'व्ययं करिष्यामि, तस्माद् अस्याः खण्डान् कुरुत'। इति जटिलगिरं श्रुत्वा तां च दृष्ट्वा परस्परं लोभसमुद्रे मग्नाः सन्तो विचिन्तयितुंलग्नाः- 'भो भ्रातरः! ज्ञातंजटिलस्य दम्भकौशल्यं ! ॥ २२१॥ Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy