SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ २२० ॥ Jain Education Intel on शक्यते ?, अत एनं हन्मि तदा मदीयमेवेदं धनं, न कोऽप्यपरो ज्ञास्यति। राज्ञा पृष्टे राज्ञोऽग्रे उत्तरं दास्यामि मार्गे आगच्छतोररण्यात् सहसा व्याघ्र उत्थितः तेन च भक्षितः अहं तु पलायित्वा आगतः, इत्युत्तरं दास्यामि । अन्यस्तु न कोऽपि जानाति यः कथयिष्यति, अतोऽस्य मारणेन मम चिन्तितं सफलं भविष्यति । इति विचिन्त्य आरक्तलोचनो भूत्वा गालिदानपूर्वकं तं प्रति हननाय कोशात् खङ्गं निष्काश्य ‘मदीयेन धनेन तव स्पृहा चेत् सज्जो भव, धनं ददामि इति 'ज ल्पन्' खङ्गमुत्पाट्य धावितः । अपरोऽपि तथाविध सम्मुखमागच्छन्तं तं दृष्ट्वा सामर्षः कोशात् खङ्गाः निष्काष्य गालिं जल्पन् धावितः । उभाभ्यां मिलनमात्रेणैव सहसा युगपद् रोषवशात् परस्परं घात-प्रतिघातौ मर्मणि दत्तौ । मर्मघातेन द्वावपि भूम्यां पतितौ अत्युत्कटघातविधुरौ च घटिकामात्रेण मृतौ । अथ कुञ्जस्थिता लक्ष्मीः सरस्वतीं प्रति वक्ति- दुष्टं धनार्थिनां चरित्रम् ? अग्रतः पुनः पश्य किं जायते' । अथ घटिकाद्वयसावशेषे दिने निःस्पृहलिङ्गधारको नग्नक्षपणको हस्तस्थितभस्म'घटको मार्गे आगच्छति । तेन तम् एतं सूर्यकिरणैरुत्तेजितं शिलादेहं दृष्ट्वा मनसि चिन्तितम् -'अस्मिन् महारण्ये सूर्यकिरणवद् उत्तेजकारकं किमस्ति ? पश्यामि, चित्रमेतत् !' इति कौतुकधिया तत्सम्मुखं चलितः । क्रमेण उपशिलं प्राप्तः, दृष्टश्च शिलकदेशः । हस्तेन वालुकामपसार्य पश्यति तावता तुअनर्गलप्रमाणां दृष्ट्वा तस्य जटिलस्य चेतना लोभकर्दमेन मलीना जाता। मनसि चिन्तयितुं लग्नः' अहो ! इयत्परिमितं धनम् अत्रास्ति । अस्य लाभेन तु राजराजे श्वरपदमनुभूयते । यदर्थं कष्टं क्रियते तत्तु अत्रैव मिलितम् !, अतोऽत्रैव स्थातव्यम्' । इति ध्यात्वा इतस्ततः पश्यति, तदा तौ द्वौ पतितौ दृष्टौ । चिन्तितं च- 'नूनम् इमौ द्वौ धनार्थं परस्परं शस्त्राघातेन मृतौ दृश्येते । १. गोलको । For Personal & Private Use Only सप्तमः पल्लवः ॥ २२० ॥ Www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy