________________
श्रीधन्य
सप्तमः
चरित्रम्
पल्लवः
॥२१९॥
'भ्रातः ! लब्धं मया तव कुटिलत्वं, मामपि वञ्चयसि यद् 'एतद् अरण्यस्थितं हाटकमेकाक्येव ग्रहीष्ये' । इदम् अपरिमितद्रव्यं एकाकिनो भवतः कथं पक्ष्यति? | आवां विभागं कृत्वा ग्रहीष्यावः । तदा अपरेणोक्तम्-"तवात्र लागो भागो नास्ति, एतत्सर्वं मदीयम् अहमेव ग्रहीष्ये । मया तु प्रथममेव त्वां प्रत्युक्तमासीत् –'भ्रातः ! आगम्यतां, तत्र गत्वा दृश्यते किमुत्तेजितं वस्तु?'| तदा त्वयोक्तम्-'त्वमेव याहि, तव पूर्वजैः स्थापितस्य वस्तुनः पोटकं बद्ध्वा गृहमागन्तव्यम् , मम भागो नार्पणीयः' । इत्युक्त्वा अग्रतश्चलितः । अधुना पुनर्विभागं मार्गयन् न स्मरसि अहं तु साहसं कृत्वाऽत्रागतः । मम पुण्योदयेन मया लब्धं तद् मदीयं , तवात्र किं लगति?। यथागतस्तथा गच्छ त्वं स्वगृहे। अस्मात् कपर्दिकामूल्यमात्रमपिन दास्यामि। वृथा किं स्थितोऽसि?, अपसर इतः प्रदेशात्, तव मम च सख्यं न स्थास्यति' । इत्येवं तद्वचांसि श्रुत्वा लोभाभिभूतोऽमर्षपूर्वकं प्राह -'भो मूर्खराट् कथं मम भागो न लभति?, यतस्त्वम् अहं च राजसेवकौ राज्ञा च एककार्यकरणार्थमेव प्रेषितौ, तत्र गच्छतोलाभो हानिर्वा सुखं दुःखं वा जायेत तद्वाभ्यां ग्राह्य सह्यं च। अथ एकेनैव एककार्ये निर्दिष्टे सेवकैर्यल्लभ्यते तत्सर्वं विभज्यगृह्यते इत्येवं राजनीतिः किं त्वया विस्मृता?। अतोऽहम् इदम् तव मस्तके हस्ताध विभज्य ग्रहीष्ये । कया निद्रया सुप्तोऽसि ? | किमिदं जगद् निर्मानुषं जातं येन तवोक्तं | भविष्यति ? । यदीदं धनं विभज्य दास्यसि तदा द्वयोः प्रीतिरुत्तमाऽचला स्थास्यति, अन्यथा तु पानेऽसमर्थो 'विकीर्णे तु समर्थ | ' इति न्यायेन राज्ञोऽग्रे निवेद्य पूर्वसञ्चितद्रव्यादिसहितमेव ग्राहयिष्यामि, कारागारे च पातयिष्यामि। अतोऽर्धं मम विभज्य देही'। इति तदुक्तं श्रुत्वा चिन्तितमपरेण-नूनम् अदीयमाने धने एष उपाधिं करोत्येव । एतच्च अपरिमितं धनं मया लब्धं कथमस्य दातुं
१. विकीर्णने।
..||२१९॥
Jain Education Intern
For Personal & Private Use Only
www.jainelibrary.org