________________
श्रीधन्यचरित्रम्
| सप्तमः
पल्लव:
विचारयति-'अहो भव्यं जातं यद् मम सहचरो नागतः । कदापि अगतोऽभविष्यत् तदाऽस्य भागोऽपि देयोऽभविष्यत् । मम भाग्यस्यैवोदयो जातः । अधुना तु अहं पश्यामि कियत्परिमिताऽस्ति' । इति ध्यात्वा हस्तेन वालुकामपसारयति, पश्यति च । तां तु अपरिमितां दृष्ट्वा दर्शनजातहर्षेण विकलचैतन्यो जातः । चिन्तयितुं लग्नः-'अहो ! मम अद्भुतं भाग्यं येन मयेदृशं निधानं लब्धम् । ममोपरि सर्वतो विधिस्तुष्टः । अस्य लाभेन तु अहं राज्यं करिष्यामि । अस्य प्रभावेण हस्त्य-श्व-पदातिप्रमुखं सैन्यं करिष्यामि, तदा बलवत्तयाऽमुकदेशं गृहीत्वा राज्यं करिष्यामि । इति मधुघटोत्पाटकपुरुषवद् आर्तध्याने पतितः सन् चिन्तयति'केनाप्युपायेनेदं सुवर्ण गृह्णामि' । इति चिन्तयन् तत्रैव स्थितो विकल्पसन्दोहे पतितः। अथ द्वितीयोऽपि नामाभिमुखं कियत्परिमितां भूमिं गत्वा चिन्तयति-"राज्ञातु द्वाभ्यामाज्ञां दत्त्वा विसर्जितौ। अहं तु एकाक्येव गत्वा उदन्तं निवेदयिष्यामि तदा राजा कथयिष्यति द्वितीयः कुत्र गतः ?' । इति पृष्टे किमुत्तरं दास्यामि ? । यथार्थकथने तु न ज्ञायते किं भविष्यति ? । अत एकाकिगमनं न युक्तम् , अत एनं गृहीत्वा यामि'' । इति संप्रधार्य उच्चप्रदेशे स्थित्वा महाशब्देन आह्वानं कृतम्। प्रथमेनापि श्रुतम् । तेनापि द्रव्यग्रथिलेन उर्ध्वं स्थित्वा हस्ताभिनयपूर्वकं महता शब्देन प्रतिवचनमुक्तम्-'त्वमेव याहि याहि, अहं तु पृष्ठत आगमिष्यामि' । इति श्रुत्वा पुनर्द्वितीयेन आह्वानं कृतं, तथापि प्रथमेन पूर्ववद् उत्तरं उत्तम् । एवं बहुवारान् आहुतोऽपि न गतः । तदा द्वितीयस्य मनसि शङ्का जाता यद् मया बहुभिः प्रकारैराहूतोऽपि कथं नागच्छति ?, किमपि कारणमत्र भविष्यति, अतोऽहं तत्र गत्वा पश्यामि' । इति संप्रधार्य मार्गानिवृत्य प्रथमसम्मुखं चलितः । अथ प्रथमेन तम् आगच्छन्तं दृष्ट्वा पूत्कृतम्-'त्वं याहि याहि, अहमपि आगच्छामि वृथा कालविलम्ब किं करोषि ?'इत्येवमुक्तोऽपि सशङ्कस्तत्र गतः । हाटकमयीं शिलां च दृष्ट्वा सविस्मयं शिरो धुन्वन् प्राह--
॥२१८॥
in Education inte
For Personal & Private Use Only
Mww.jainelibrary.org