SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ २१७ ॥ Jain Education Internation तदा लक्ष्म्या दैवतमायया एकाऽष्टोत्तरशतगजपरिमितलम्बायमाना हस्तत्रयोन्नता एवंविधा जात्यसुवर्णमयी शिला विकुर्विता । | साऽपि शिला वालुकायां निमग्ना हस्तैकमात्राद्घटिता दृश्यते । तस्याः शिलाया एकदेशः पाश्चात्यदिनसूर्यातपेन झिगझगायमानो दृश्यते, रविकिरणवद् उत्तेजं करोति । अथ अपराह्णयाममात्रदिन शेषसमये द्वौ राजसेवकौ राज्ञा कस्मिंश्चित् कार्योद्देशे ग्रामान्तरं प्रेषित राजादिष्टं कार्यं कृत्वा मार्गे आयातौ । तन्मध्याद् एकेन कौतुकप्रियेण इतस्ततो दृष्टिः प्रसारिता । ततस्तेन दूरतः शिलाया | एकदेशं उत्तेजं कुर्वन् दृष्टः । तदा तेनाऽन्यस्तोक्तम् -'भ्रातः ! पश्य, पश्य दूरे किमस्ति यद् उत्तेजं करोति ?' तदा तेन रभसवृत् | अनुत्सुकतया च दृष्ट्यदानपूर्वकमुक्तम्- 'भविष्यति किमपि, काचः, पाषाणशकलः, कमलपत्रादिकं वा भविष्यति, परन्तु अस्मिन् महारण्यप्रदेशे किं सुवर्ण-रत्नादिकं भविष्यति ?' । तदा प्रथमेनोक्तम्- 'आगच्छतु भवांश्चेत् तत्र गत्वा दृश्यते किमस्ति ?' किम् उद्युत्यते ?' । द्वितीयेनोक्तम्- 'किं वृथा अरण्येऽटनम् ?' निष्प्रयोजनप्रयासेन किं साधनम् ! । अयं तु महत्तरमार्गोऽस्ति, केऽपि पूर्वमागता भविष्यन्ति । यदि चेदं किमपि बाह्यं वस्तु अभविष्यत् तदा तैर्गृहीतं किं नाऽभविष्यत् ? तस्मात् चलतु सत्वरं, राज्ञोऽग्रे गत्वा कार्योदन्तं निवेद्य, स्वगृहे गत्वा, स्नान- मज्जन-भोजनादिकं कृत्वा, मार्गश्रममपनोद्य स्वस्ति भवावः' । इति तदुक्तं श्रुत्वा प्रथमेनोक्तम् भ्रातः ! मच्चित्ते तु महदाश्चर्यं प्रतिभाति, अतोऽहं तु तत्र गत्वा निर्णयं कारिष्यामि' । द्वितीयेनोक्तम्- 'गच्छ त्वं सुखेन त्वत्पूर्वजैः स्थापितस्य वस्तुनः पोटकं बद्ध्वा गृहमागन्तव्यम्, काऽपि मदीया शङ्का न कर्तव्या । भागांशोऽपि न देयः । मया भागो नेष्यते, अतो मम भागो नार्पणीयः । त्वमेव सुखी भव' । इत्युक्त्वा सत्वरं चलितो ग्रामाभिमुखं द्वितीयः । प्रथमस्तु तस्मात् पृथग्भूत्वा शिलोपकण्ठं गतस्तदा तत्र बालुकानिमग्नः शिलाया एकदेशो जात्यकाञ्चनमयो दृष्टः । दृष्ट्वा च मनसि चमत्कृतो For Personal & Private Use Only सप्तमः पल्लव: ॥॥ २१७ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy