SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य- चरित्रम् सप्तमः पल्लव: ॥२१६॥ मद्वियुक्तस्य गुणा अपि दोषतां यान्ति --- "मौनान्मूकः प्रवचनपटुर्वातुलो 'जल्पको वा, धृष्टः पार्श्वे वसति च सदा दूरतस्त्वप्रगल्भः । क्षान्त्या भीरुर्यदिन सहते प्रायशो 'नाभिजातः, सेवाधर्मः परमगहनो योगिनामप्यगम्यः||१|| सर्वेऽपि जना मम प्राप्त्यर्थं विविधैरुपाथैरुद्यम कुर्वन्ति, अतिदुष्करक्रियासाध्यानि कार्याणि सोत्साहं कुर्वन्ति, तत्र यदि पापोदयाद् न सिध्यन्ति तथापि न मुञ्चन्ति । शतसहस्त्रशो निष्फलतामनुगता अपि, महाकष्टक्लेशं प्राप्ता अपि, प्राणसङ्कटे पतिता अपि ममेच्छां न मुञ्चन्ति । यद्यपि अहं प्रतिदिनम् अनेकानि अवाच्यानि असह्यानि निन्दनीयानि कष्टानि ददामि तथापि मत्तः पराङ्मुखा न भवन्ति, मयि सानुकूला एव दृश्यन्ते । एकं द्रव्यानुयोगगर्भितम् अध्यात्मधर्मशारत्रं विहाय प्रायो ये केचन शास्त्रसन्दर्भास्तेऽथ मदुपाया मद्विलासा वा ग्रथिताः । मद्युक्तं पुरुषं मुनिं विहाय सर्वेऽपि संसारिणः सेवन्ते । यदुक्तम् -- __ "वयोवृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः। ते सर्वे धनवृद्धानां द्वारे तिष्ठन्ति किकराः||१|| किम् अत्यालापितेन? मरणावसानेऽपि स्वधनं न प्रकाशयन्ति, ममेच्छां च न मुञ्चन्ति । यदि त्वं न मन्यसे तहाऽहं त्वा प्रत्यक्षं दर्शयामि । यतः समस्तसंसारिणां दशप्राणैर्बद्धं जीवितमस्ति । तेषाम् एकादशः प्राण उपचरितो बाह्यधनमस्ति । तस्य बाह्यधनप्राणस्यार्थे केचन अभ्यन्तरदशप्राणानपि त्यजन्ति, न तु द्रव्यम्। किञ्च मम रूपस्योपरि उद्गतो वृक्षः सहर्ष रुपान्तरेण पुष्पादिना प्रस्फुलति । देवा अपि यत्र मे रुपं तत्र तत्र अनाहूता आगत्य श्रयन्ति । सुभगे ! आगम्यतां मया सार्धं, प्रदर्शयामि कौतुकम्" । इत्युक्त्वा ते द्वे अपि चलिते, नगरात् सपादं योजनमेकं गते, तत्र एकत्र कुञ्जगहने स्थिते। ॥२१६॥ in Education Interesant For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy