________________
श्रीधन्यचरित्रम्
सप्तमः पल्लवः
॥ २१५॥
जगति? हे भारति ! लोके त्वया एवं रूढि : प्रवर्तिता-लक्ष्म्याः शिरसि मम स्थानं तत्सत्यम्. परन्तु एतत्तु राज्ञा स्वस्याज्ञाप्रवृत्त्यर्थं | निर्मितम् । यदि च 'हाटकं रूप्यं च विनाऽक्षरमुद्रां न विक्रीयेत तदा तु तव महत्त्वं सत्यम् ; अन्यथा तु प्रस्फुलनमात्रमेतत् । भारत्योक्तम्-अज्ञानान्धे जगति त्वमेव मुख्या । यतो मुनीन् विहाय सर्वेऽपि संसारिण इन्द्रियसुखनिरताः, ते सर्वेऽपि त्वामेव वाञ्छन्ति । ये केचन अवगतपरमार्था गृहीतजिनवचनहार्दास्ते मामिच्छिन्ति' । लक्ष्मीराह-भो भारति ! ये केचन त्वामिच्छन्ति तेषां त्वमपि प्रायेण सानुकूला भवसि, तत्सङ्गे विहरसि, तेषां स्तोकं महान्तं वा प्रयास सफलं करोषि, तेषां पार्थं न मुञ्चसि,सर्वथा निराशान् न करोषि। किञ्च, ये कियन्तः शास्त्राभ्यासं कुर्वन्तः खिन्ना विमुखीभवन्ति ते त्वां विहाय तिष्ठन्ति, त्वन्नामापिन गृह्णन्ति। ये च त्वयि अत्यन्तासक्तास्तेऽपि मामिच्छन्ति, शास्त्राभ्यासमपि मम प्राप्त्यर्थं कुर्वन्ति, निर्गुणान् पुरुषान् अनेकधा सद्गुणारोपणेन स्तुवन्ति, इत्येवं कुर्वतां मम सङ्गो भवति तदा तु सगर्वं प्रस्फुलन्ति, अन्यथा तु विषादमाप्नुवन्ति। पुनर्ममार्थम् अन्यान्यकलाप्रकर्ष दर्शयन्ति, तथापि अप्राप्त्याऽनेकानि चाटूनि कुर्वन्ति, अकरणीयानि कुर्वन्ति, असेव्यान् सेवन्ते, विद्यावतां यद् दूषणं तद्दूषणतया निन्दनीयं भवति । ये च मत्सङ्गतिकास्तेषां दोषोऽपि गुणतया गीयते। यदुक्तम्।
"आलस्यं स्थिरतामुपैति भजते चापल्यमुधोगिता, मकत्वं मितभाषितां वितनते मौढ्यं भवेदार्जवम।
पात्रापात्रविचारणाविरहिता यच्छत्युदारात्मता, मातर्लक्ष्मि ! तव प्रसादवशतो दोषा अमी स्यर्गणाः" ||१||
॥२१५॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org