SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ २१४ ॥ | क्रियते ?'। गृहपतिना प्रोक्तम्- 'तव दुःखकारणवारणे नाऽस्माकं कोऽपि दोषोऽस्ति, अत इमं एतत्स्थानाद् उत्थापयामि । ब्राह्मणस्तु अन्यत्र गत्वा कथयिष्यति । किमत्र अस्य लगति ? । एवमुक्त्वा धावन् गृहपतिस्तत्र गत्वा सरोषं गदितुं लग्नः - भो भट्टाः ! उत्तिष्ठत यूयम् अतः प्रदेशात् । निष्कारणं किमत्र कोलाहलो मण्डितः ?' । तदा परिमितजनैरुक्तम् -'अयं द्विजवरः किं युष्माकं गृह्णाति ?, किं युष्मत्पार्श्वे याचते ? । अयं तु भवद्भाग्ययोगेन साक्षात् कोऽपि ब्राह्मणो रूपान्तरेणागतोऽस्ति । अतो यूयं विज्ञनिपुणांः शास्त्रविदो भूत्वा एवं हीनजनोचितं किं बूथ ?'। तदा श्रेष्ठिनोक्तम्- 'अहं जानामि युष्मद्वचनचातुर्यम् । ईदृशं चातुर्यं कस्याप्यग्रे कार्यं, न ममाग्रे । यदि यूयं श्रवणरसिकास्तदा एनमाहूय स्वगृहे स्थापयित्वा किं न श्रृणुथ ? अस्मद्गृहाङ्गणे का वितण्डा मण्डिता ? | उत्थीयताम्, अन्यथा तु सेवकैर्गलहस्तान् दापयित्वा निष्काशयिष्यामि । अतोऽत्र नो स्थातव्यम्, गच्छत शीघ्रम्' । | इत्येवमनादरवाक्यानि श्रुत्वा विलक्षमुखाः सन्तो निन्दन्तः सर्वेऽप्युत्थिताः । ब्राह्मणोऽपि उत्थितः, लक्ष्म्यागमनं ज्ञात्वा तत्रैव वने गतः । गृहपतिरपि गृहान्तरागत्य जरत्यग्रे वक्तुं संवृत्तः - मातः ! भवतीनां कर्णशूलकारको द्विजो मया निष्काशितः । युक्तियुक्तवाक्यानि उक्त्वा निर्धाटितः कुत्रापि गतः, सर्वे जना अपि गताः स्वस्वगृहं प्रति, अतो मातः ! सुखेनात्र स्थीयताम्' । जरत्या ज्ञातम् - भारती तु अपमानिता गता, अतोऽहमपि तत्र गत्वा स्वोत्कर्षस्वरूपं पृच्छामि । एवं विधं विचिन्त्य गृहस्वामिनं प्रत्युक्तम्-एतां झोलिकां यत्नेन भव्यस्थाने स्थापय, अहं तु विचारभूम्यां यामि' । गृहपतिनोक्तम् -'अहं जलपात्रं गृहीत्वा भवत्या सह आगमिष्यामि ́ । तयोक्तम्- 'न, यतो लोका एवं दृष्ट्वा भ्रमेण चर्चां कुर्युः । नगरमुख्यस्य तवेदं कर्तुमनुचितम्, अतोऽहम् एकाकिन्येव यास्यामि । देहिचिन्तायां मम मनुष्यसङ्गतिर्नोरोचते' । ' भवतीनां समादेशः प्रमाणं युक्तिर्न कार्या इत्युक्त्वा जलपात्रं दत्तम् । तद् गृहीत्वा गृहान्निर्गता जरती, यत्र सा भारती तत्र गता। भारती आलापिता- "कीदृशास्तवोदन्ताः ?, का मुख्या इह Jain Education International For Personal & Private Use Only सप्तमः पल्लवः ॥॥ २१४ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy