________________
श्रीधन्यचरित्रम्
सप्तमः
पल्लवः
॥२१३॥
भव्यवस्त्र-भोजनहस्ता धावमानास्तत्रागताः । तदा पण्डितैरपरद्विजैश्च पृष्टम्-'इदं कस्य गृहालब्धम्?' | तैरुक्तम्राज्ञोऽमुकमन्त्रिणः पुत्रो नीरोगो जातः, मरणान्तकष्टाद् उद्गरितः स्नानं करोति, अतस्तस्य पिता प्रतिब्राह्मणं पञ्च पञ्च वस्त्राणि भव्यं भोजनं दीनारमेकं च ददाति। अतः किमत्र स्थिता य॒यम् ?, कर्थं तत्र न गच्छथ ? । गम्यतां तत्र, यूयं पण्डिताः, युष्मभ्यं तु बहुतरं दास्यति' । एवं श्रुत्वा पण्डिताः सामान्यब्राह्मणाश्च तं प्रति धाविताः । केचन महेभ्याः साधुकारास्तत्रस्थाः श्रृण्वन्ति । अस्मिन्नवसरे दलालसंज्ञका व्यापारिणस्तत्रागता महेभ्यानां पुरः कथयिं लग्नाः-'श्रेष्ठिनः! अद्य अमुकवैदेशिकसार्थवाहो बहुतराणि दिनानि अत्र स्थित्वा गन्तुकामोऽस्ति। सोऽनेकानि वस्त्राणि विविधानि क्रयाणकानि विविधानि च रत्नानि मार्गितमूल्येन, गृह्णाति, स्वकीयानि च ददाति । अनेके व्यापारिणस्तत्र गताः सन्ति, ईप्सितं मूल्यं गृहीत्वाऽऽगच्छन्ति। यूयं किं न याथ ?, विक्रयं किं न कुरुथ?, ईदृशोऽवसरः क्व मिलिष्यति?'। इति श्रुत्वा महेभ्या अप्युत्थिताः। अथ च ये निर्धना साधुकाराः सामान्याः परिमितास्ते तत्र स्थिताः श्रृण्वन्ति। अत्रावसरे गृहस्वामिना वृद्धां प्रति प्रोक्तम्-मातः ! ग्रीष्मकालोऽस्ति, भव्यजलेन स्नानं करोतु । तयोक्तम्‘एवं भवतु' । तदा गृहपतिनोक्तं स्वपत्नी प्रति-'भो अमुके ! मञ्जूषायां भव्यं सुगंधि तैलं वर्तते, तद् लात्वा अभ्यङ्गपूर्वं स्नानं कारय । अहं गृहोपरि स्थितो वृद्धायोग्यानि वस्त्राणि निष्काशयितुं यामि' । तदा श्रेष्ठिन्या वध्वा च तैलाभ्यङ्गपूर्व स्नानं कारितं, शरीरं च लुञ्छितं भव्यवस्त्रेण । श्रेष्ठिनाऽपि भव्यवस्त्राणि लात्वा वृद्धा परिधापिता, पुनः सुखासने स्थापिता। तदा जरत्योक्तम्'तव गृहाङ्गणे को महता शब्देन ब्रूते ?'| श्रेष्टिनोक्तम्-मातः ! कोऽपि वैदेशिको द्विजः समागतोऽस्ति स तारस्वरेण अनेकानि भव्यसूक्तानि पठति। अनेके श्रृण्वन्ति । जरत्या प्रोक्तम्-एवम् !, अहो ! मम कर्मणां दोषः । धन्यास्ते जना रसिका ये सहर्ष श्रुत्वा प्रसत्तिपात्रं भवन्ति। मम तु कर्णे तप्तत्रपुसेचनप्रायं लगति' । तदा श्रेष्ठिनोक्तम्-मातः ! निवारयाम्येनम् । वृद्धयोक्तम्-'किमन्तरायः
Jain Education in
For Personal & Private Use Only
Aw.iainelibrary.org