________________
श्रीधन्यचरित्रम्
सप्तमः पल्लवः
॥२१२॥
अधृतिर्मा विधेया। एते सर्वे त्वया स्वसन्ततितुल्या एव ज्ञेयाः । अहमपि तव निर्देशकारकोऽस्मि, नात्र कोऽपि सन्देहः । इदं गृहं स्वगृहमिव गण्यं, न भेदो रक्षणीयः । तवादेश एवं मम प्रमाणम् । मनसा वाचा कायेन च अहं वदामि-तव स्वमातृवद् भक्तिं करिष्यामि। किमतिजल्पनेन?, अतिजल्पनेन कार्बिम्योद्भावनं स्याद्, अतोऽवसरे सर्वं ज्ञास्यसि । पुनर्गृहस्वामिन्या प्रोक्तम्मातः ! किमत्र द्वारदेशे स्थिताऽसि ?. आगम्यतां गृहमध्ये, अलङ्करोतु पल्यङ्कम् । इत्युक्त्वा श्रेष्ठिन्या वध्वा च जरत्या हस्त - स्कन्धादिकं संगृह्य क्षमा क्षमा' इति शब्दं ब्रुवाणया गृहान्तः पल्यङ्कनीता।
एतस्मिन्नवसरे दैवतमायया किं जातम्?-यत्र द्विजरुपेण भारती व्याख्यानं करोति तत्र सर्वेऽपि पूर्वोक्ता जनाः श्रृण्वन्ति । तत्र चतुष्पथे कतिचिद् राजसेवका अन्ये च नागरिकाः पामरजनाश्च गृहीतविविधवस्त्राभरणसमूहहस्तास्त्वरितगत्या धावमाना आगच्छन्ति । तान् दृष्ट्वा श्रवणरसिकजनैः पृष्टम् इदं स्वर्ण-रुप्यमयं भूषण-पात्रादिकं कुत आनीतम् ?, त्वरितगत्या च किमर्थं चलथ?' । तैरुक्तम्-"अद्य अमुककोटीश्वरेण धनिना राज्ञे महानपराधः कृतो भविष्यति, तेन अतिकुपितेन राज्ञा सभायां स्थित्वा निर्देशः कृतः-'सर्वैरपि राजसेवकै गरिकैश्च यथेच्छया अस्याऽपराधिनो गृहं लुण्ट्यताम् । यद् यद् यो गृह्णाति तत् तत् सर्वं मया तस्यैवाऽनुज्ञातं, सुखेनैव गृह्यतां नास्मद् भयं गण्यं, तेन सर्वेऽपि तस्य गृहं लुण्टयितुं प्रवृत्ताः । बहुतरं लुण्टित्वा (तं) परंतु अद्यापि बहुतरमस्ति किं यूयमपि न गच्छथ? अतो यात यातं, तत्र गत्वा यथेच्छया गृह्यतां । कोऽपि तत्रान्तरायकारको नास्ति'। ईदृशोऽवसरः कुतः पुनर्मिलिष्यति ? | किमत्र वार्ता श्रृण्वतां हस्ते चटिष्यति ?" | एवं तैरुत्साहिता लोभार्थिनः सर्वेऽपि | धावमानास्तत्र गताः । पण्डितजना महेभ्या व्यापारिणश्च तत्र स्थिताः श्रृण्वन्ति पुनरस्मिन्नवसरेऽन्ये तन्नगरवासिनो ब्राह्मणा
॥२१२॥
Jain Educationindain
For Personal & Private Use Only
Hirww.jainelibrary.org