________________
श्रीधन्यचरित्रम्
सप्तमः
पल्लवः
विहाय ईदृशे जनवृन्दे स्थिते कथं मुखं निष्काश्य वदेत् ? ! अतोऽवश्यं गन्तव्यं मया ' । एवं संप्रधार्य महाकष्टं यथा भवति तथा उत्थितः । त्वरितं गृहान्तरागत्योक्तम्-'अरे ! वद वद, किमर्थं धर्मश्रवणान्तरायं कृत्वा आहूतः ?'। श्रेष्ठिन्योक्तम्-किम् आकुलो भवसि ?, धीरो भव, युष्मद्भाग्यमुद्घटितं यद् वृद्धा माता समागताऽस्ति' । श्रेष्ठिनोक्तम्-'का तव वृद्धा माता आगताऽस्ति? | एवं वदन्तं गृहमध्ये गत्वा श्रेष्ठिन्या पात्रं दर्शितम् । तद्दर्शनमात्रेण चमत्कृतपाषाणे लोहमिव पूर्वाऽध्यवसितं सर्वं विस्मृतम् । एवं च वक्तुं लग्न :-'कुत इदम् अदृष्टपूर्वं रत्नपात्रम् ? | तदा तयोक्तम् स्वामिन् ! अद्य व्याख्यानं श्रृण्वत्सु एका देशान्तरतो वृद्धा समागता । गृहाङ्गणे तया पानीयं याचितं, तदा मया वृद्धवर्धू प्रत्यादिष्टम्-पश्य पश्य, कः कर्णकटुशब्दः श्रृण्वताम् अन्तरायं करोति ?। अतो यद्याचते तद् दत्त्वा तं विसर्म्य आगच्छ' । इत्यादिकं सर्वं स्वामिने निवेदितम् । 'स्वामिन् ! युष्मद्भाग्यबलेन इयं वृद्धा जङ्गमं निधानमिव आगता। कोऽपि नोपलक्षयते कोऽपि न जानाति । प्रथममेव युष्मद्गृहे आगतास्ति। तस्या : पार्थे ईदृशानि पात्राणि वस्त्राणि आभूषणानि च बहुतराणि सन्ति , अतस्ताम् आवयं रक्षतु' । तां वार्ता श्रुत्वा लोभ विह्वलः श्रेष्ठी तया सह यत्र सा वृद्धा तत्रागत्या प्रणामपूर्वकं ताम् आलापयितुं लग्नः-'मातः ! कुतो देशाद् भवदागमनम् कुशलेन ?, किं तव कोऽपि परिचारको नास्ति?' एवं श्रुत्वा तया जरत्योक्तम्-"भ्रातः ? पूर्वं तु मम ईदृशं गृह-धनस्वजनादिकमभूद्यादृशं प्रायो कस्यापि राज्ञो न भवति। अधुना तु एकाकिन्येवास्मि कर्मणां गतेर्वैचित्र्यं सर्वसंसारिषु । यतः"नाऽभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि। अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम" ||१||
अत : कर्मदोषेण जराद्यवस्था प्राप्ताऽस्मि । किं क्रियते भ्रातः !" । तदा व्यवहारिणा प्रोक्तम्-'मातः ! अतः परं काऽपि
4
॥२१
in Education
For Personal & Private Use Only
Twww.jainelibrary.org