________________
श्रीधन्यचरित्रम्
सप्तमः
24/पल्लवः
॥२१०॥
निवसामि । चित्तप्रसत्तिं विना कस्यापि गृहे चित्तं स्थिरं न भवति' । एवं श्रुत्वा गृहस्वामिन्या गदितम्-' एतेनैव तव चित्तं प्रसत्तिं भजते तत्तु सुकरम् । मम पतिस्तु ईदृशे कार्ये परमहर्पवान् उत्साहवानेव सदा प्रसत्तिपात्रं भूत्वा निर्वहति' । तदा | जरत्योक्तम्-यद्यप्येवं, तथापि तस्याऽनुज्ञां विना ममाऽत्र स्थातव्यं न भवति' । गृहस्वामिन्योक्तम्-तमाहूय अनुज्ञां दापयामि' । जरत्योक्तम् ‘स क्व गतः? | गृहस्वामिन्योक्तम्-कोऽपि देशान्तरीयद्विजवर आगतोऽस्ति, तस्य पार्श्वे धर्मश्रवणं करोति । तम् आह्वयामि' । जरत्योक्तम् - ‘एवं तर्हि तस्य धर्म श्रृण्वतो माऽन्तरायं कुरु' । गृहस्वामिन्योक्तम्- आः ! ईदृशास्तु स्वोदर पूर्तिकरणार्थ बहुतरा आगच्छन्ति, अतः किं गृहकार्य विनाश्यते?' इत्युक्त्वा धाविता । यत्र गृहान्तः स्थिता बध्वः श्रृण्वन्ति तत्र गत्वा गृहद्वारान्तः स्थित्वा एकः स्वसेवको द्वित्र्यादिशब्देन आहुतः । सोऽपि श्रवणरसिकश्चित्ते दूयमान आगतः । तया कथितम् - 'श्रेष्ठिने उपकर्णीभूय कथय-गृहान्तः श्रेष्ठिनी आह्वयति' । तेनापि तथा कृते श्रेष्ठिना सरोषम् एवमुक्तम्-'ईदृशं किं महत्कार्यमापतितं येन ईदृशेऽवसरे आह्वयति? अतो याहि याहि कथय तां प्रति यत् कार्य भवति तत् पिधाय रक्षणीयम् । चतुर्घटिकोर्ध्वम् आगमिष्यामि । अधुना तु मौनं कृत्वा ईदृशीम् अमृतपानकल्पां देशनां श्रृणु' । एवं श्रुत्वा सेवकेन श्रेष्ठिन्यै निवेदितम् । पुनः श्रेष्ठिन्योक्तम् पुनः कथय स्वा मिनं - किमपि महत्कार्यं वर्तते अतो गृहान्तरागम्यताम्' । तेन सेवकेनोक्तम् अहं तु न गच्छामि, ममोपरि कुप्यति स्वामी अन्यमाज्ञापयतु। तदा श्रेष्टिनाऽन्यःसेवक आज्ञापितः। पुनःपुनस्तदेवोत्तरं दत्तम्। तदा श्रेष्ठिन्या द्वारकपाटमुद्घाट्य, जनलज्जां विहाय, मुखं निष्काश्य श्रेष्ठिनं प्रत्युक्तम्-'स्वामिन् ! शीघ्रं शीघ्रं गृहान्तरागन्तव्यं, किमपि महत्तरं कार्यमापतितमस्ति' । तदा श्रेष्ठिनाऽध्यवसितम्-'नूनं किमपि राजकार्यमापतितं दृश्यते, अन्यथा इयं लज्जां
॥२१०॥
Jan Education International
For Personal & Private Use Only