________________
श्रीधन्य
चरित्रम्
॥ २०९ ॥
Jain Education Inte
प्रलपसि ?' । तदा तया वध्वाकक्षान्तरितपटावृतं रत्नखचितं स्वर्णपात्रं दर्शितम् । तद्दर्शनमात्रेण सूर्योदये कजमिव तस्या मुखं विकसितम् । हासपूर्वकं विस्मययुक्तं वधूं प्रत्युवाच- पुत्रिके ! कुत इदं तव हस्ते लब्धम् ?' । वध्वोक्तम्- 'पूज्ये ! अद्य तु युष्मद्भाग्योदयेन स्वर्धुनी स्वयमेव अनाहूताऽऽगतास्ति, अतः किं ममोपरि कोपं करोषि ? । अज्ञात्वा मम दुर्वचनमुक्तं तद् भवादृशीनां न युक्तम् । तव चरणसेवां कुर्वत्या मम एता वद् वयो जातं तत् सर्वमपि अद्य सर्वगृहमनुष्याणां मध्ये विफलीकृतम् । किं प्रत्युत्तरयामि ? पूज्यानां किमपि वचनं कथनयोग्यं भवति, किमपि न भवति । किमपि प्रकटनयोग्यं किमपि चतुष्कर्णयोग्यमेव भवति, तत्किं सर्वेषु श्रृण्वत्सु प्रलपामि ? । अतोऽधुना यथा रुचिस्तथा कुरु' । एवं वधूवचः श्रुत्वा प्रत्युत्तरयतिविदुषि ! अहं जानामि त्वं विचक्षणाऽसि, अवसरज्ञाऽसि, गृहमण्डनाऽसि । परं किं करोमि ?, श्रवणव्यग्रचित्तत्वान्न ज्ञातम् । मया दुर्वचनमुक्तं तस्य क्षमां कर्तुयोग्याऽसि । अथ यां त्वं कथयसि सा वृद्धा क्वाऽस्ति ?' वध्वा प्रोक्तम् गृहमध्ये भद्रासने निवेशिताऽस्ति, तेन यूयं तत्र गत्वा सुखालापपूर्वकं शिष्टाचारं कृत्वा तां मनः प्रसत्तिभाजं कुरुत' । ततः सवधुका गत्वा सविनयं तां प्रति आलाप्य विज्ञप्तिं कर्तुं प्रवृत्ता - 'हे मातः ! सानन्दं सुखेन स्वगृहवद् अस्मद्गृहे स्थातव्यम्, का शङ्का न रक्षणीया । ईदृशं मम भाग्यं कुतो यद् भवादृशाया वृद्धायाः सेवां करोमि ? । त्वं तु मम मातृकल्पा, अहं तु पुत्रत्वेन त्वया गण्या । अस्माकं महाभाग्योदयेन तीर्थरूपा त्वम् अस्मद्गृहमागता । एताश्चतस्त्रो वध्वस्तव दासीप्रायास्तवादेशकारिण्यो ज्ञेयाः । खान पान स्नान शयनोत्थानादि यत्कार्यं भवेत् तद् निःशङ्कं वक्तव्यम् । तत्सर्वं सहर्षं शिरोबलेन करिष्यामः' । एवं श्रुत्वा जरती प्राह-'भद्रे ! त्वया साधूक्तं परं त्वत्पतिरेव आगत्य सबहुमानम् अत्यादरेण रक्षेत् तदा तु अहं स्थिरचित्तेन
For Personal & Private Use Only
सप्तमः
पल्लव:
11308 11
www.jainelibrary.org