________________
श्रीधन्यचरित्रम्
॥ २०८ ॥
| मुख्या, मुख्यौ तु मम श्वश्रूश्वशुरौ वर्तेते' । जरत्योक्तम्- 'तर्हि तयोरनुज्ञां विना कथं त्वं मां रक्षितुमलम् ?' । तदा तया प्रोक्तम्'मातः ! अस्मिन् गृहे मम श्वशुरः श्वश्रूः ज्येष्ठो ज्येष्ठवधूर्देवरो देवरपत्नी च ते सर्वेऽपि सानुकूला वर्तन्ते, अतः सृखेन स्थेर्य भवत्या' । जरत्योक्तम्-एवं तु न यदा तव श्वशुरः श्रुश्रुश्च सम्मान निमन्त्रणमं कुरुतस्तदा तु अहमत्र तिष्ठामि नान्यथा तु घटिकामात्रमपि । भद्रे वत्से ! एकस्य चित्ते प्रीतिः अपरचित्तेऽप्रीतिस्त्र निवसनमयुक्तम्' । तथा प्रोक्तम्- 'यदि ते सर्वे सविनयम् आमन्त्रणं कुर्वन्ति तदा त्वं स्थिरचित्ताऽत्र स्थास्यसि वाऽन्यत् किमपि इच्छसि ?' । जरत्या 'ओम्' इति प्रोक्तम् । अथ वधूः शीघ्रं शीघ्रं पिहितकपाटान्तः स्थिता श्वश्रूर्यत्र श्रृणोति तत्र गत्वा सहसाऽऽलापीत्- 'भवत्या शीघ्रं शीघ्रं गृहान्तरागन्तव्यम्' । तदा तया श्रवणभङ्गद्वेषाद् उक्तम् -'मूर्खे ! किम् अनर्थ वाचालवाण्या अमृतस्त्राविण्याः श्रवण- विघ्नं करोषि ? । मानुषीरुपेण विधात्रा गर्दभी निर्मिता दृश्यसे ! । पुनरेवं दुष्प्राप्यप्राप्तमानुष्यभवं सफलं कुर्वत्या यत् पूत्कारकरणविघ्नं करोषि तेन पापेन गर्दभी भविष्यसि । तदा वध्वा प्रोक्तम्- 'पूज्ये ! एका वृद्धा माता भवतीनाम् अगण्यपुण्यप्राग्भारोदयेन अतर्किताऽनाहूता कमलेव आगताऽस्ति । एवं श्रुत्वा गर्विता सामर्षं साहङ्कारं वधूं प्रत्युत्तरयितुं लग्ना जोड़ जड़ प्रकृते ! अस्मिन्नगरे अस्मद् गृहतोऽपि महत्तरः कोप्यस्ति किं यत् त्वं सर्पयं मेरु तयाऽवर्णयसि ? । अतो ज्ञाता त्वं मूर्खराड् असि । त्वम् अवसरम् अनवसरमपि न वेत्सि । | कदापि कोऽपि महाजनो ऽनवसरे गृहमागतस्तदा तद्योग्यसम्मान - शिष्टाचारं कृत्वा विसर्ज्य च स्वकार्ये यः प्रवणो भवति स निपुणः कथ्यते, न भवादृशो भवति' । इति श्वश्रूवचः श्रुत्वा वध्वा प्रोक्तम्- 'भवत्या यदुक्तं तत् तथैवास्ति, परन्तु अत्रागत्य एकं मद्वचनं श्रुत्वा यथेच्छं कुरु, किं निष्कारणं लोकान् श्रावयसि ?' । तदा श्वश्रूर्भृकुटिं भाले कृत्वा नेत्रे वक्रयित्वाऽऽगता । 'किं किं
Jain Education International
For Personal & Private Use Only
सप्तमः
पल्लवः
|॥२०८॥
www.jainelibrary.org