________________
-श्रीधन्यचरित्रम् |
प्रथमः
पल्लव:
॥१४॥
| अधुना तस्य किमपि कार्यमापतितम्, अतस्तद्ग्रहणायाऽहमागतः अतः सव्याजं धनं ददतु मम। तदा श्रेष्ठिनोक्तम्-'वरम् लेख्यक | कृत्वा सव्याजं सर्वमात्मीयं धनं गृहाण' । इत्युक्त्वा लेखकारकमहत्तमानाहूयोक्तम्-अस्य द्विजवरस्य धनस्य लेख्यकं कृत्वा सव्याजं धनं ददतु । एषां विशदरीत्या लेखः करणीयः, कपर्दिकामात्रस्यापि विनिमयो न भवति: यतोऽयं द्विजवरो दातुं योग्यो न लातुं योग्यः' । तैरपि विशदरीत्या लेख्यकं कृत्वा द्विजं श्रावयित्वा तस्याग्रे धनं ढौकितम् । द्विजोऽपि तद् ग्रहीतुं लग्नः । एतावता श्रेष्ठिनोक्तम्-द्विजवर ! पाश्चात्यदिनोऽतिस्तोकतरोऽस्ति, भवद्गृहं तु दूरेऽस्ति, धनं लात्वा गच्छतो रात्रिः पतिष्यति, रात्रौ च सधनस्य गमनं न युक्तम्, अतो रात्रौ अत्रैव स्थातव्यम्, प्रभाते तु जाते सुखेन गच्छतु भवान् । अतोऽद्य स्वेच्छया भोजनसामग्री गृहूणातु, अस्मद्गृहे वाटिकायां रसवतीं निष्पाद्य भोजनं कृत्वाऽस्मान् पवित्रयतु भवान् । इति श्रेष्ठिनोक्ते द्विजेनाप्यनुमतम् । हर्षितः, स्वधनमपि लब्धं स्वेच्छया भोजनं च प्राप्तम् । ततः सेवकैर्गृहवाटिकायां नीतो द्विजः । इच्छातोऽप्यधिका पिष्ट-घृतशर्करादिविविधव्यञ्जन-शालि-दालि-दुग्धा-दिसामग्री दत्ता । द्विजः स्नात्वा रसवतीं कर्तुं लग्नो विचारयति-'मम त्वेकाकिन एतावतीं परिसामग्री लात्वा ढौकिता। एवमनीज्या व्ययति, अतोऽयं स्वल्पादिनमध्ये धनरहितोभविष्यति, यतो यन्मया कृतं तद् भव्यं कृतम् ।' इति ध्यायन् रसवतीं कृत्वा यथेच्छया भुक्त्वा रात्रेश्चतुर्घटीसमये आगत्य श्रेष्ठिनः समीपे स्थितः । श्रेष्ठिनापि स्वसेवकायाऽऽज्ञा दत्ता-'गृहोपरितनभूमौ मम शयनावासे मम सन्निधौ भव्यपल्यङ्कः सजीकृत्य भट्टस्य स्वापाय दीयताम्' । तेन तथा कृते श्रेष्ठिना द्विजायोक्तम्-'दूरागमनात् श्रान्तोऽस्ति भवान्, अत उपरितनभूमौ सुखेन स्वपितु भवान्, समयेऽहमपि तत्रैव शयनार्थमागमिष्यामि, तदा हृदयगतां वार्तामकान्ते करिष्यावः । इति श्रुत्वा द्विज उपरितनभूमौ गत्वा शय्यायामुपविष्टः । इतस्ततो विलोकमानो देवविमानसदृशं शयनस्थानं दृष्ट्वा पुनरपि विह्वलो जातः । शयनीयोपरि पुष्पमालिकाया जालिका ग्रथिताऽस्ति,
॥१४॥
Jan Education Internat
For Personal & Private Use Only
www.jainelibrary.org