SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ १३ ॥ प्रतिचतुष्किकायां विविध विचित्रवल्लिलिखितैरने काश्चर्ययुक्तैर्बहुद्रव्यव्ययसाध्यैः चीनांशुकैर्निर्मितैश्चन्द्रोदयैरुपशोभितम्, अतिचित्र प्रस्फुलित पुष्पकेदारप्रतिरुपकै र्हष्टिव्यामोहकारकै रास्तीर्णम्, अतिमृदुगुणयुक्तैः शरीरावयवाऽवष्टम्भकैः सुखदैरोत्सीर्षकैर्विष्वग्भित्तिमूलोपशोभितम्, अनेकसुरा - ऽसुर-नर- किन्नर - विद्याधर- हस्त्यऽश्व- हंस-सारस-मयूरचकोरपारापतवन-लता-'पद्मलताप्रमुखैर्विचित्रचरित्रैश्चित्रितभित्तिदेशम्, स्वर्ण-रूप्यमयमषीभाजन ताम्बूलभाजन प्रमुखैः शोभित भूप्रदेशं सार्वभौमभूपतिमन्दिरानुकारम् । तद् दृष्ट्वा विश्वभूतिश्चिन्तयितुं लग्नः- 'अहो ! अयं कीदृशः साधुकारो निष्प्रयोजनद्रव्यव्ययकारकः ? । कोऽपि फत्तनिको दृश्यते । ईदृशाऽनर्थव्ययकरणेऽस्य गृहे लक्ष्मीः कियाद्दिनानि स्थास्यति ? | अयं तु स्तोकदिनमध्येऽनर्थव्ययं कृत्वा निर्धनो भावी । किमयं लोकान् दास्यति ? । ईदृशी व्यवस्था तु राजद्वारे घटते यस्य | सहजवृत्त्या लक्ष्मीर्निरन्तरं समागच्छति । साधुकारस्य तु नीत्या प्रवर्तनमेव वरम् । कोऽपि मम भाग्योदयो येनेदृशी मतिरुत्पन्ना । अतोऽस्य पार्श्वाद् मूलधनं व्याजधनं च लात्वाऽन्यत्र नीतिवादिनो गृहे दास्यामि' । Jain Education International एवमास्थानद्वारस्थितो यावदार्त्ति करोति तावद् देवभद्रश्रेष्ठिना दृष्टः । श्रेष्ठ्यपि आसनादुत्थाय सम्मुखं गतः । 'आगम्यतां द्विजवर ! इतः पादौ अवधार्यताम्, अलंक्रियतामिदमासनम्' इत्यादिशिष्टाचारपूर्वकं निजासनसमं स्यापितः द्विजो निर्गुणोऽपि कृपणोऽपि धनी सर्वत्र मानमाप्नोति । उक्तं च "सर्वत्र सेव्यते लोकैः, धनी च कृपणो यदि । स्वर्णाचलस्य परितो, भ्रमन्ति भास्करादयः " ||१|| सुखक्षेमवार्ता चाऽऽपृच्छ्य किमागमनप्रयोजनमिति पृष्टे द्विजः प्राह- 'पूर्व हि मया भवतां पार्श्वे धनं स्थापितमस्ति, १. पद्मलतारक्तलता प्र-प्र० For Personal & Private Use Only प्रथमः पल्लवः ॥ १३ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy