________________
श्रीधन्यचरित्रम्
॥ १२ ॥
प्रवर्तिष्ये' । इत्येवं लोभजागरिकया रात्रिमतिवाह्य प्रभाते संजाते वस्त्रं परिधाय निर्गतश्चतुष्पथे याति । तदा हट्टस्थिता लोकाः परस्परमुपकर्णे भूत्वा वार्तां कुर्वन्ति- 'भो अमुक ! ते कौतुकं दर्शयामि' । तेनोक्तम्- 'किं कौतुकम् ' ? । स आह- 'दृश्यताम्, योऽयं दारिद्यमूर्तिर्ब्राह्मणो याति, अस्य पार्श्वे किमपि धनं भविष्यति न वा ? तदा तेनोक्तं अस्य वराकस्य पार्श्वे किं धनं भवति ? भिक्षावृत्त्या किमपि निर्वाहकारको दृश्यते, कुतोऽस्य धनम् ? । धनिकस्य मुखं किमाच्छादितं स्थीयते' ? । तदा हट्टस्वामिना विहस्य प्रोक्तम्, –'भो. भ्रातः ! ईदृशस्याऽस्य पार्श्वेनेकलक्षसङ्ख्यया धनमस्ति अस्मिन्नगरे नाऽस्य समानो धनी । समस्ता अपि नगर वासिनो लोका अमुमुपलक्षन्ति परं न कोऽप्यस्य शुभकार्ये नाम गृह्णातिः, ईदृशोयं कृपणशेखरो वर्तते' । इति तस्य वार्तो श्रुत्वाज्ञा मुखेऽङ्गुलिं प्रक्षिप्य शिरो धुन्वन्ति । अहो ! अपरिमितधनस्वामिन एतस्य स्वरूपं पश्यन्तु । किं करिष्यति धनम् ?, धिगस्तु अस्यावतारम् हारयति नरभवम् । पूर्णे आयुषि चायं यास्यति, धनं त्वत्रैव स्थास्यति । धनं पूर्वं केनापि सह न यातमभूत्, न च याति, न च यास्यति' । इत्येवं प्रतिहट्टं प्रतिजना विप्रं दृष्ट्वा वार्ता कुर्वन्ति । महानगरत्वादात्मध्याने देवभद्रश्रेष्ठिनो गृहं प्राप्तः । तस्य गृहद्वारे स्थितैः सेवकै रुद्धः । 'भो विप्र ! स्थीयतामत्र, मम स्वामिने ज्ञापयामि' इत्युक्तवा सेवकेनोपदेवभद्रं गत्वोक्तम्'स्वामिन् ! एको दारिद्यमूर्तिर्वराको विप्रः स्वामिनं द्रष्टुमीहते' । श्रेष्ठिनोक्तम्- 'कोऽपि दानार्थी आशां धृत्वाऽऽगतो भविष्यति, तमागन्तुं ददस्व । सति सामर्थ्ये निराशवालने महत् प्रायश्चित्तम् । स्वशक्त्यनुरूपं दास्यामि, अतो मा वारय' । इति स्वामिनिर्देशं लब्ध्वा विप्रायोक्तम्-‘सुखेन गच्छ' । विप्रेणाऽचिन्तिकीदृशोऽयं साधुकारको यद् राजद्वारवद् रोकयति ? । एते सेवका द्वारस्थिताः किं कुर्वन्ति ? केवलं निरर्थकं धनव्ययं करोति । किमत्र चौरभयमस्ति ? किमत्र घाटी पतति यदेतेऽत्र स्थापिताः ? । नूनमयमनीतिप्रवर्तनेन स्तोकैरेव दिनैर्निर्धनो भवितुं दृश्यते' ! । इति ध्यायन्नन्तराऽऽस्थाने प्रविष्टः । तत्र किदृशमास्थानम् ? -
Jain Education International
For Personal & Private Use Only
प्रथमः
पल्लवः
॥ १२ ॥
www.jainelibrary.org