SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य प्रथमः चरित्रम् पल्लवः ॥११॥ पापानुबन्धिपुण्योपरि विश्वभूतिब्राह्माणकथा। एकस्मिन् महापुरे विश्वभूतिर्ब्राह्मणः परिवसति। तस्य पुनः पूर्वकृताऽज्ञानकष्टरूपलौकिकधर्मफलपापाऽनुबन्धिपुण्योदयेन र व्यवसाये महान् लाभो जायते । यत्र पञ्चरूप्यकलाभं चिन्तयति तत्र पञ्चविंशतिरूप्यकान् प्राप्नोति । किं बहुना ? चिन्तिता हानिर्लाभाय भवति । एवं स व्यवसायं कुर्वन्ननेकलक्षद्रव्यस्वामी जातः । परं प्रकृत्या महान् कृपणः कस्यापि कपर्दिकामात्रं न ददाति, दानवार्तयाऽपि रुष्यति, गृहेऽपि यत् समर्धं धान्यं तल्लाति, स्वल्पमूल्यं स्थूलं च वस्त्रं परिदधाति । प्रत्यहं तैलमत्ति, घृतं तु कस्मिंश्चित् पर्वदिने लाति, तदपि अतिस्तोकतरं स्पर्शमात्रम् । पुत्रपरिवारस्य भोजनं कुर्वतः कवलान् गणयति। तस्य चत्वारः पुत्राः सन्ति, तानपि स्वाज्ञायाः सङ्कटे रक्षति, न कस्याप्यधिकारः, केवलं तदुक्तकार्यमात्रं कृत्वा तिष्ठन्ति, किमपि न्यूनाधिकं चेत्कुर्वन्ति तदा गृहान्निष्काशयति । लभ्यस्य च कपर्दिकामात्रस्याऽर्थे शिरःस्फालनं कृत्वापि गृह्णाति, परं कपर्दिकां न मुञ्चति। प्रभाते न कोऽप्यस्य नाम गृह्णाति । ईदृशः कृपणशिरोमणिः सहस्त्रसङ्ख्यान् व्यापारान् करोति, व्याजेन च द्रव्यं ददाति। अथ तस्मिन्नेव नगरे एको देवभद्रश्रेष्ठिवरः परिवसति । तस्यापि गृहे तेन विश्वभूतिना अनेकसहस्त्रसङ्ख्यया व्याजेन वित्तं स्थापितमस्ति । कियत्यपि गते काले एकस्मिन् दिने पाश्चात्यरात्रिसमये स ब्राह्मणो गतनिद्रोऽतिलोभाद् व्यवसायजागरिकां कुर्वन्नस्ति, तदा देवभद्रगृहस्थापितं द्रव्यं स्मृतिपथमागतम्, 'अहो! देवभद्रेश्रेष्ठिगृहेऽनेकसहस्त्रपरिमितं द्रव्यं मया स्थापितमस्ति, | परं बहुतरकालो गतस्तथापि मया तस्य शुद्धिर्न कृता, चटितं व्याजमपि न गृहीतम्, अतोऽद्य प्रभाते तस्य गृहेऽवश्यं गन्तव्यम्, गत्वा च चटितव्याजस्य लेख्यकं कृत्वा तद्रव्यं रोक्यं गृहीत्वा मूलद्रव्ये क्षिप्त्वा पुनर्द्रव्यपत्रीं कारयित्वा गृहमागत्य पश्चादन्यकार्ये | ॥११॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy